________________
T• * *, TIT.
भेदे सम्बन्धग्रहणासम्भवात्, अगृहीतसम्बन्धस्य च शब्दस्य नैवार्थप्रत्यायकत्वम्, तथात्वे सर्वस्यापि शब्दस्य सर्वार्थप्रत्यायकत्वं स्यादित्यतः परार्थवाक्योच्चारणान्यथाऽनुपपत्तेनिश्रीयते धूमादिवङ्गृहीतसम्बन्धोऽर्थप्रतिपादकश्शब्दो नित्यः, नित्यत्वे च तस्यैव शब्दस्य पुनः पुनरुच्चारणे बहुश उपलभ्यमानत्वात्सम्भवति सम्बन्धग्रहणमर्थप्रत्यायकत्वश्चेति । अत एव मीमांसादर्शनसूत्रकार आह―" नित्यस्तु स्यादर्शनस्य परार्थत्वात् " ॥ अ. १, पा. १, सू. १८ इति । तद्भाष्यम् - नित्यश्शब्दो भवितुमर्हति । कुतः - दर्शनस्य परार्थत्वात् । दर्शनमुच्चारणम्, तत्परार्थं परमर्थं प्रत्याययितुम्, उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यानऽर्थे प्रत्याययितुं शक्नुयात् । अतो न परार्थमुच्चार्येत । अथ न विनष्टस्ततो बहुच उपलब्धत्वादर्थावगम इति युक्तमित्यादि " । नित्यत्वे च तस्य कैमुतिकन्यायप्राप्तमेवापौरुषेयत्वमिति चेत्, तदत्यन्ताऽसङ्गतमेत्र, अनेकासां धूमव्यक्तीनामेकैकशस्स्व साध्येन सहावशा व्याप्तेग्रयितु ग्रहीतुं चाशक्यत्वेन गृहीतव्याप्तिकायाश्च धूमव्यक्तेः पक्षधर्मत्वाभावेनानुमित्युच्छेदमयेन तस्या अपि नित्यवित्वापत्तेः । स्थादेतत् अनित्यानामपि तत्तद्वह्निधूमव्यक्तीनामन्त्रयव्यतिरेकाभ्यां धूमत्वेन वह्नित्वेन सर्वोपसंहारेण व्याप्तिग्रहसम्भवेन नैवमसाकं प्रतिबन्दिविभीषिकेति चेत्, तर्ह्यत्रापि विनाशिनीनामपि गत्रार्थव्यक्तीनां गोशब्दव्यक्तीनां च गोत्वेन गोशद्वत्वेन चानुगतीकृत्य सङ्केतग्रहणे का भवतां क्षतिः, सामान्यविशिष्टयोरविवक्षितविशेषयोर्व्यक्त्योरनुमेयानुमापकभावस्येव वाच्यवाचकभावस्यापि समकक्षत्वादिति । एतेन गोशब्दोच्चारणे सति सर्वगोविषयकः प्रत्ययो युगपजायते, ततश्च गोशब्दादिस्कृतिवचन इत्यवगम्यते, व्यक्तिवचनत्वे तु तेन तद्व्यक्तिमात्रप्रत्यय एव भवेत् । विना प्रयोगबाहुल्येन सकृच्छ्रयमाणस्य गवादिशब्दस्याऽनित्यत्वेनाभिमतस्याकृत्या वाच्यभूतया सह संज्ञासंज्ञिमावलक्षणसम्बन्धः कथयितुं ग्रहीतुं वा न शक्यते । अङ्गुल्यादिनाऽऽकृति विशेषनिर्देशपूर्वकमनित्यस्यापि शब्दस्य सम्बन्धस्य कथनं ग्रहणं वा कुतो न सम्भवतीति चेत्, उच्यते, एकस्मिन् गोपिण्डे पार्थिवत्वद्रव्यत्वादिरूपाणां बह्वीनामाकृतीनां सद्भावाद्विना प्रयोगबाहुear गोशब्दवाच्यां गोत्वरूपामाकृतिं पार्थिवत्वादितो विभक्तां गोशब्दादिरन्वयव्यतिरेairat aarमयेदिति नित्ये शब्देऽभ्युपगम्यमाने तस्य बहुकृत्व उच्चारणश्रवणसम्भवादन्वयव्यतिरेकाभ्यां तत्तदाकृतिविशेषावगमकत्वं सुलभमित्यर्थकं " गोशब्द उच्चारिते सर्वगवीषु युगपत्प्रत्ययो भवति । अत आकृतिवचनोऽयम्" इत्यादिभाष्योपेतम् " सर्वत्र यौगपद्यात् " अ. १, पा. १, सूत्र १९ । इति मीमांसादर्शनसूत्रमपि निरस्तमवसेयम् । का पुनराकृतिः का व्यक्तिरिति । द्रव्यगुणकर्मणां सामान्यमात्र माकृतिः । असाधारणविशेषा व्यक्तिः । अ. १, पा. ३, सु. ३० । इति शाबरमाध्यवचनादाकृतिपदग्राह्या या जातिस्तत्र शक्यम्युपगमे गोपदशक्यतावच्छेदकं गवेतरासमवेतत्वे सति सकलगोसमवेतत्वलक्षणं गोवं
"Aho Shrutgyanam"