________________
१४
चम्मति•
पदादिरचनां दृष्ट्वा तस्य चेत्साऽनुमीयते । वैदेsपि रचनां दृष्ट्वा कर्त्तृत्वं तस्य गम्यताम् ॥ २ ॥ इति ॥
"
1
सेति कर्त्तृतेत्यर्थः । ननु वैदिकी रचना पौरुषेयी न भवति दृष्टकर्तृकरचना विलक्षणत्वादन्तरीक्षवदित्यनुमानतो रचनाया अपौरुषेयत्वसिद्धया तद्विशिष्टवर्णात्मकवेदोऽप्यपौरुषेय एव सिद्ध्यतीति चेत्, मैवम्, विशिष्टा रचना दृश्यमाना तत्करणाऽसमर्थमेत्र कर्त्तारं निराकुरुते, न पुनः कर्तुमात्रमपि न खलु पुराणरूपप्रासादादौ विशिष्टा रचना प्रतीयमाना कर्तुमात्रं निराकुर्वती प्रसिद्धा, तत्करणाऽसमर्थस्यैव शिल्पिनस्तया निराकरणात्, न हि कर्त्रन्वयव्यतिरेकानुविधायिनो धर्माः कर्त्तारं विना घटन्ते, ततो वैदिकी रचना पौरुषेयी न मवतीत्याद्यनुमानमयुक्तमेवोक्तम्, दृष्टकर्तृकरचनाविलक्षणत्वस्य हेतोरुक्तनीत्या तंत्रासिद्धत्वात्, सिद्धत्वे वा तद्विलक्षणस्यैव कर्तुरनुमीयमानत्वेन कर्तृमात्राऽनिषेधकत्वात् । ततो वेदः पौरुषेयो वचनरचनावश्वाद् मारतादिवदित्याद्यनुमानेन वेदस्य पौरुषेयत्वमभ्युपगन्तव्यम् । अपि च वेदवाक्यादऽनवरतं तदर्थज्ञानोत्पत्तिप्रसङ्गेन न स्वतस्तस्य तदुत्पादनव्यापारः, किन्तु पुरुषकृतसङ्केतग्रह जन्य विशिष्टसंस्कार सव्यपेक्षस्यैव तस्य तदुत्पादनव्यापारः, ते च पुरुषास्सर्व एव भवता प्रमादाज्ञानकरणापाटवविप्रलिप्सादिदोषवन्त एवाभ्युपगता इति तत्कृतसङ्केतग्रह जन्य संस्कारो न यथार्थ इति तत्सव्यपेक्ष वेदजन्यार्थज्ञानमयथार्थ स्वादिति नित्यवेदस्याभ्युपगमो गजस्नानमनुकरोति । तदुक्तम्
असंस्कार्यतया पुंभिस्सर्वथा स्यान्निरर्थता ।
संस्कारोपगमे व्यक्तं, गजस्नानमिदं भवेत् ॥ १ ॥ इति ।
$
"Aho Shrutgyanam"
एतेन नासक्तृगुणसङ्क्रान्त्या वेदागमे प्रमाणत्वम्, शब्दोच्चारणमात्र एत्रासस्य व्यापारादित्यादि पूर्वोक्तं निरस्तम्, अथाऽगृहीतसङ्केतस्य पुंसोऽर्थप्रतिपत्यसम्भवेन स्वार्थेन साकं गृहीतसङ्केत एव शब्दश्शाब्दप्रतीतिं जनयति तत्र सङ्केतग्रहश्व यदा प्रयोजकवृद्धस्य गामभ्याजैना शुक्लां दण्डेनेत्यभिधानादनन्तरमेव प्रयोज्यवृद्धस्तेन तामानयति तदा पार्श्वस्थोऽव्युत्पन्नसङ्केतो बालोऽयं देवदत्तो गवानयनविषयकप्रतिपत्तिमान् तद्विषय कदण्डादिप्रहारानुकूल चेष्टावत्वादित्येवं तत्प्रतिपत्तिमनुमिनोति, तत्प्रतिपच्यन्यथाऽनुपपच्या तत्र शब्दस्य समुग्धार्थतया शक्तिं च परिकल्पयति, ततश्च यदा गां नय घटमानयेत्युक्ते प्रयोजकवृद्धेन प्रयोज्यवृद्धो गां नयति घटञ्चानयति तदा तत्तत्पदावापोद्वापाभ्यां तस्मिन् तस्मि अर्थे तत्तच्छन्दशक्तिं निश्चिनोति, इत्येवं प्रकारेण सम्पद्यते, तथा च शब्दस्यास्थिरत्वे पुनः पुनरुच्चारणस्यैवाभावतोऽन्वयव्यतिरेकाभ्यां शक्यवगमाभावेनार्थप्रतिपश्यजनकत्वात् प्रेक्षादक्षैरनुच्चार्यमेव स्याद्वाक्यम्, उच्चार्यते च परावबोधाय तत्, ततो गवानयनाद्यर्थविषयक - प्रत्ययरूपपरावबोध फलकत्वं शब्दस्य नित्यत्व एवोपपद्यते, न त्वनित्यत्वे, प्रत्युच्चारणं शब्द