________________
१६
अम्मति• काज, गा० . व्यक्त्यमेदावगाहित्वेन सेयं दीपज्वालेति प्रत्यभिज्ञाया इव प्रामाण्येऽपि व्यक्तित्वेन व्यक्त्य. भेदावगाहित्वेन यत्प्रामाण्यं तस्याभावात् । अयमल्पो महान् कर्कशो मधुरश्शब्द इति भेदप्रतिमासकबाधकप्रत्ययस्य सद्भावेन तस्याः प्रामाण्याभावाच, न च पुरुषे तुरगवर्ति वेगाध्यारोपाद्वेगेन पुरुषो यातीति प्रत्ययवद्वर्णस्य तद्वथञ्जकध्वनेश्च भेदाग्रहाद् ध्वनिगतोस्पत्त्यादिधर्मस्य गादावारोपादुत्पन्नो गकार इत्यादिप्रतीते+निनिष्ठोत्पयादिविषयकत्वेन भ्रमत्वम् , एवं व्यञ्जकध्वनिगताल्पत्वमहत्वादिधर्माणां गादिवर्णेष्वध्यारोपात्तत्प्रत्ययस्यापि भ्रान्तत्वमिति स न मेदसाधनक्षम इति वाच्यम्, गादिवर्णानां निस्स्वरूपत्वावाप्तिप्रसक्तः, यतो यः कदाचिदप्यन्यथा प्रतीयते तस्यैवान्यदाऽन्यथा प्रत्ययने भ्रान्तत्वम् , यथैकत्वेन प्रतीयमानस्येन्दोदित्वेन प्रत्ययने । तदुक्तम्
यो यन्यरूपसंवेद्यस्संवेद्येतान्यथाऽपि च ।
स भ्रान्तो न तु तेनैव यो नित्यमुपलभ्यते ॥ १॥ इति ॥ न चात्र कदाप्यल्पमहत्त्वादिधर्मानध्यासिततया गादिस्स्वप्नेऽपि केनचित्प्रतीयत इति । न चाभिव्यञ्जकस्य प्रदीपादेरल्पमहत्वे तदभिव्यङ्ग्यस्य घटपटादेरल्पमहस्वादिप्रतिभासोऽपि दृष्ट इति । किञ्चाल्पत्वादिधर्माणां अनिधर्मत्वपक्षे श्रोत्रेण तद्ब्रहणमपि न स्यात् । उक्त न्याममञ्जर्याम्
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ।
नहि वायुगतो वेगः, श्रवणेनोपलभ्यते ॥ १॥ इति ॥ किञ्च मालाऽनेन कृतेत्यादौ सन्दर्भविशेषविशिष्टपुष्पस्वरूपायां मालायां विशेष्यस्य पुष्पादेस्सिद्धत्वेऽपि सन्दर्भरूपतद्गतविशेषणस्य पुरुषकर्तृकत्वमादायैव तद्विशिष्टपुष्परूपायां मालायां पुरुषकर्तृकत्वस्य व्यवहारवत् तुष्यतु दुर्जन इति न्यायेन विशेष्यीभूतवर्णानां नित्यवाऽभ्युपगमेऽप्यर्थप्रत्ययानुकूलरचना विशेषरूपानुपूर्वीविशेषरूपविशेषणस्य पुरुषविशेषकर्ट कत्वमादायैवानुपूर्वीविशेषविशिष्टवर्णात्मकवेदस्यापि पुरुषविशेषकर्दकत्वमुपपन्नं स्यादेव । यतो न हि पुरुषप्रयत्नमन्तरेण कचिदक्षरविन्यासो दृष्टश्रुतो वा, दृष्टस्य श्रुतस्य च तत्त्वस्याऽनुसारिणी कल्पना प्रमाणभावं भजते, न यथा तथा कल्पना । एवं सत्यपि वेदे पदानां रचना स्वाभाविकीति चेत्, तर्हि पटेऽपि तन्तूना रचना नैसर्गिकी भवेदिति साप्यकर्तृका स्यात्, पटरचनां दृष्ट्वा तत्कर्तृत्वमनुमीयत इति चेत् , तर्हि वेदरचनायामपि तुल्यमेतत् , उक्तश्च
" पदनित्यत्वपक्षेऽपि, वाक्ये तद्रचनात्मके । कर्तृत्वसम्भवात्पुंसो वेदः कथमकृत्रिमः ॥ १॥
"Aho Shrutgyanam"