________________
सम्मति० का १, मा... मित्युपमिती प्रमे इति लिङ्गसादृश्यादिविषयकयथार्थज्ञानमपि गुणस्तद्धेतुस्तद्वच्छान्दप्रमाऽपि दोषाभावमात्राम भवतीति तत्र यथार्थवाक्यार्थज्ञानमपि गुणो हेतुरिति यथार्थवाक्यार्थशानात्मकगुणवत्पुरुषोच्चरितत्वेन वेदे प्रामाण्यं परतोऽभ्युपगन्तव्यम् । अपौरुषेये वेदे अकर्तृकत्वेन दोषनिवृत्त्यैव प्रामाण्यमस्त्विति चेत् , तर्हि तत एव गुणनिवृत्याऽप्रामाण्यमपि स्यात् । गुणनिवृत्तरप्रामाण्यम्प्रति सामर्थं न कापि दृष्टिगोचरमिति चेत्, तर्हि दोषनिवृत्तेः प्रामाण्यम्प्रति क सामथ्र्यमनुभूतमित्युच्यताम् । लोकवचसीति चेत् ? तुल्यमुभयत्र । लोकवचसामप्रामाण्ये दोषा एव कारणम् , गुणनिवृत्तिस्त्ववर्जनीयसनिधिरित्यप्रामाण्यं दोषाधीनत्वेन परत इति चेद्, मैवम् , प्रामाण्यं प्रत्यपि गुणा एव कारणम् , दोषनिवृत्तिस्तु स्वभावसिद्धेति प्रामाण्यमपि गुणाधीनत्वेन परत इति विपर्ययस्यापि सुवचत्वात् , दोषायगमप्रयुक्तो गुणानामवर्जनीयसद्भावो न तु स्वकारणोपजाता गुणाः, येन तादृशगुणजन्यं प्रामाण्यं परतस्स्यादिति चेत्, तर्हि गुणोत्सारणप्रयुक्तो दोषाणामवर्जनीयसद्भावोऽप्यस्त्वित्यप्रामाण्यमपि स्वत इत्यपि स्वीक्रियताम्, न च गुणाभावस्यैवाऽप्रामाण्यं प्रति प्रयो. जकत्वेन परप्रयोज्यत्वात्परतस्त्वमेव तस्य सिक्ष्यतीति वाच्यम् भावकारणप्रयोज्यत्वे सत्येव परतस्त्वस्वीकारात्, गुणाभावस्य च भावरूपत्वाभावात् , अन्यथा दोषाभावमात्रप्रयोज्यस्वमादाय प्रामाण्यस्य स्वतस्त्वसाधनं तवापि न सङ्गच्छेत, प्रामाण्यस्य दोषाभावरूपपर. प्रयोज्यत्वात् । अथैवं सति वेदानामपौरुषेयतया गुणदोषयोरुभयोरभावे तद्धेतुकयोः प्रामाण्याऽप्रामाण्ययोरभावात्तृतीयराशेश्वासम्भवानिस्स्वभावत्वापत्तिस्स्यादिति चेत्, किं न खलु भो खलस्वभावमात्मानं त्वमुपालभसे, यः किलामीषामकतकत्वं पूत्करोषि । तस्मा. दाप्तवक्तगुणहेतुकं प्रामाण्यमनाप्तवक्तृदोषहेतुकचाप्रामाण्यं यथा लोकवचसि तथैव वेदेऽप्यस्त्वित्येव मार्गश्रेयस्तरोऽभ्युपगमनीय इति तस्याप्तवक्तृगुणहेतुकत्वे सत्येव प्रामाण्यं सिद्धं स्यात् , नान्यथा । वेदे विपरीताभ्युपगमे को दोष इति चेत् , उच्यते, दोषाऽऽसक्तपुरुषप्रणीतत्वादप्रामाण्यमिव गुणवत्पुरुषप्रणीतत्वादेव प्रामाण्यमपि लौकिकवाक्येषूपलब्धम् , लौकिकवाक्यसमश वेदवाक्यम् , य एव लौकिकाश्शब्दास्त एव वैदिका इत्यतश्शन्दस्वरूपाविशेषानुच्चार्यमाणत्यप्रयोज्यपुरुषाश्रवणत्वसङ्केतग्रहसव्यपेक्षार्थप्रतिपादकत्वादिलक्षणसमान. धर्मकत्वे सत्यपि पूर्वोक्तान्वयव्यतिरेकानुविधाने सत्यपि च तत्र गुणवत्पुरुषप्रणीतस्वानम्यु. पगमे शब्दप्रामाण्यहेतुभूताप्तोच्चरितत्वस्याऽभावेन प्रामाण्यायैव जलाञ्जलिदत्तो भवेत् । ननु वर्णा नित्या एव " य एवं पूर्वमुच्चरितो गकारः स एवापं गकारः" इत्यादि प्रत्यभि. ज्ञावलासिध्यन्ति, तथा च वर्णसमूहात्मकपदसमूहविशेषवाक्यसमूहविशेषरूपस्य वेदस्य नित्यत्वेन गुणवत्पुरुषप्रणीतत्वाभावान परतःप्रामाण्यमिति चेत्, न, उत्पन्नो गकारो विनष्टो गकारः, इदानीं श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इत्यादिप्रतीत्योत्पादविना. शशीलानां वर्णानामनित्यत्वेन स एवायं गकार इति प्रत्यभिज्ञायास्सजातीयत्वेन रूपेण
"Aho Shrutgyanam"