________________
११
सम्मति काण्ड १०
मीमांसकास्तु ज्ञानमात्रे उत्पत्तौ स्वत एव प्रामाण्यमनधिगताऽयाघितार्थविषयकज्ञानस्वलक्षणं तद्वभिष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकज्ञानत्वलक्षणं वा, ज्ञानोत्पादकसामय्यतिरिक्तगुणादिसामय्यन्तरानपेक्षत्वात्, वेदागमस्याऽप्यपौरुषेयतया नित्यत्वेन " शब्दसामान्यस्य ज्ञानजनकत्वेन प्रामाण्यसम्भवाच्चोदनायाश्च शब्दत्वादतस्सम्भवत्येवातीन्द्रिये धर्मे चोदनायाः प्रामाण्यम्" इति शावर भाष्य प्रभाटी को केरनधिगता बाधितार्थावगाहिज्ञानजनकत्वात् प्रामाण्यम् आप्तत्र क्तृगुणाऽपेक्षाभावात्स्वतः । यतो नाप्तवक्त्रगुणसङ्क्रान्त्या वेदागमे प्रामाण्यम्, शब्दोच्चारणमात्र एवाप्तस्य व्यापारात् । शब्दः पुनरविसंवादिन वस्तुप्रतीतिं विदधानः स्वमहिम्नैव प्रमाणभूतः, नातोऽस्मिन्नाप्तप्रणीतत्वाभावादप्रामाण्यम्, यतः शब्दस्थलेऽपि विज्ञानोत्पादकमेव प्रामाण्योत्पादकम्, नाप्तप्रणीतत्वम्, अतस्तदभावो न दोषाय, प्रामाण्यप्रयोजकाभावो ह्यप्रामाण्यमाक्षिपति, नाप्तप्रणीतत्वाभाव इति नानुमानादिवेद्यत्वेन परतः प्रामाण्यम् । अनुमानप्रयोगस्तु प्रामाण्यव्यवहारसाधनार्थमेत्र, न तु प्रामाण्यसि व्यर्थम्, सिद्धेऽप्यर्थे इच्छादिना व्यवहारार्थं हेतूपन्यासो लोकेऽवलोक्यत एव । अत एव " प्रत्यक्षपरिकलितमध्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः " इति वाचस्पतिचचनं सङ्गच्छत इत्याहुः । तन्न विद्वन्मनोरञ्जकम्, वेदे प्रामाण्यस्यासवक्तृगुणाऽपेक्षाभावेन स्वतस्त्वे तत्राप्रामाण्यस्यानाप्तवक्तृदोषाऽपेक्षा नास्तीति तदपि स्वतस्स्यादिति विपर्ययस्य सुवचत्वापत्तिस्स्यात् । अथाऽप्रामाण्यम्प्रति वक्तुदोषाणामन्त्रयव्यतिरेकौ स्तः, अत एव " तदन्तर्गतो दोषो मिध्याभावस्य हेतुः " इत्युक्तमिति चेत्तदप्यपेशलम्, प्रामाण्यम्प्रति वक्तृगुणानामपि तयोस्तुल्यत्वात् । तथाहि पुरुषगुणे सति वाक्यप्रामाण्यं दृश्यते, तस्मि असति च तन्नानुभूयत इत्यन्वयव्यतिरेकाभ्यां पुरुषगुणकृतं वाक्यप्रामाण्यमवगम्यते, तद् यद्यनन्यथासिद्धान्वयव्यतिरेको भयसद्भावेऽपि पुरुषगुणप्रयोज्यं नेष्यते तप्रामाण्यमपि पुरुषदोषाधीनं न स्यात् गुणान्वयव्यतिरेकयोरिव दोषान्वयव्यतिरेकयोरप्यन्यथा सिद्धत्वात् न च दोषस्थलीयावेव तावनन्यथासिद्धाविति वक्तुं शक्यम्, विपर्य - यस्यापि सुत्रचत्वात्, विशेषाऽभावात् इष्यते च पुरुषदोषाधीनमप्रामाण्यं भवद्भिः, तद्वत्पुरुषगुणकृतं प्रामाण्यमध्येष्टव्यम्, यतो लोकेऽपि वचनप्रकारेषु गुणवत्पुरुष प्रणीतत्वादेव गुणाधीनं प्रामाण्यम्, तदभावे च दोषाधीनमप्रामाण्यमिति व्यवस्थोपलभ्यते, प्रयोगश्चात्रैवम्-वेदवचनं वक्तुगत यथार्थज्ञानात्मक गुणाधीनप्रामाण्यवत् श्रोतुयथार्थबोधजनकत्वात् उभयसम्प्रतिपचासत्र चनवत्, न चात्र वेदस्याऽपौरुषेयत्वात्तद्वचनं स्वत एव प्रमाणमित्युक्तसाध्यं मास्तु हेतुरस्त्विति व्यभिचारशङ्का कर्तव्या, यदि तद् वक्तुयथार्थज्ञानात्मकगुणाधीनप्रामाण्यवन्न स्यात्तर्हि श्रोतृयथार्थबोध जनकमपि न स्यात्, उन्मत्तपुरुषवाक्यवत्, इष्यते च श्रोतृयथार्थज्ञानजनकम्, तस्मात्तद् वक्तृयथार्थज्ञानाऽऽत्मकगुणाचीनप्रामाण्यवदित्यनुकूलतर्कसद्भावात् । लिङ्गसादृश्यादिभ्रान्तज्ञानरूपदोषाभावमात्रान्नानु
1
"Aho Shrutgyanam"