________________
२.
सम्मति काम, गा.. मिति, यद्यपि वेद्यमानतीर्थकरनामकर्मादिसद्भावेन भवजिनास्तत्स्थानं नालङ्कृतवन्तस्तथाप्यत्र 'परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणाऽपि तमथं गमयन्ति' इति न्यायादनुभूयमानतीर्थकरनामकर्मलेशसद्भावेऽपि तद्गता इव गता इत्यर्थः कतळः, तेषाम् , तेन शासनप्रणेत्त्वं तस्यामत्रस्थायां तेषामुपपन्नमेव, यद्वा "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमबचापवर्जिताः" इत्येतस्य निरामार्थमाह सरि:-"ठाणमणोवमसुहसुवगयाणं" अनुपमसुखं स्थानं " उप "इति प्रकर्षण-अपुनरावृत्त्या गतानाम्-उपगतानामिति सङ्गितार्थः । विस्तृतार्थस्त्वयम्-अत्र 'सास. णम्' इति मुख्यं विशेष्यम्-शास्यन्ते प्रतिपाद्यन्ते जीवाजीवादयः पदार्थाः प्रमाणान्तरानाधितत्वेन यथार्थस्वरूपतयाऽनेनेति शासन द्वादशाङ्गमित्यर्थः। तत्कि परापेक्षया प्रामाण्य. विशिष्टं किं वा स्वमहिम्नैवेत्यत आह-सिद्धमिति, यथा कनकं स्वयमेव पवित्रमिति तत्पाविश्यकरणे नान्यापेक्षा, तथेदं शासनमपि स्वमहिम्नैव निश्चितप्रामाण्यम्, न तु हेत्वन्तरापेक्षया, यथाऽल्पज्ञपुरुपप्रणीतग्रन्थे सर्वज्ञप्रणीताऽऽगमाऽविरुद्धार्थप्रतिपादकत्वादिहेत्वन्तः रापेक्षणात्परापेक्षनिश्चितप्रामाण्यम् , नात्र तथा, अस्य घातिकर्मक्लेशादिसकलदोषापरामृष्टपुरुषविशेषप्रणीतत्वेनैव प्रामाण्ये हेत्वन्तरानपेक्षणादिति । अथास्य शासनस्य जिनप्रणीतत्वमेव नास्तीति तत्र प्रामाण्यं निरवकाशमिति विप्रतिपन्नम्प्रति किं मानमिति चेत्, उच्यते, इदं शासनं गुणवत्पुरुषप्रणीतम् , अन्यथाऽनुपपन्नाबाधितार्थप्रतिपादकत्वात् , लौकिकसत्यवाय. दित्यनुमानमेवेति, न चात्र व्यभिचारशङ्का विधेया, यतो यहीदं शासनं गुणवत्पुरुषप्रणीत न स्यात् तरन्यथाऽनुपपद्यमानाऽबाधितार्थप्रतिपादकमपि न स्यात् उन्मत्तपुरुषवाग्वदित्यनु कूलतमद्भावात् । न चात्रोक्तहेतोरसिद्धिरिति वाच्यम् , द्रव्यपर्यायापेक्षया कथञ्चिन्नित्या. नित्यत्वादिस्वरूपतया शासनप्रतिपाद्यस्यार्थस्य प्रत्यक्षप्रमाणेन तथैव प्रतीतेः, न च नित्यानित्यत्वयोर्विरुद्धत्वात्तद्धर्माक्रान्तार्थावगाहिनी सा प्रतीतिभ्रान्तेति वाच्यम् न्यायमते भ्रान्तज्ञाने धर्मिप्रकारांशावच्छेदेन प्रामाण्याऽप्रामाण्ययोरिव शाखामूलावच्छेदेनेकस्मिन्नेत्र वृझे कपिसंयोगतदभावयोरिव या बौद्धसिद्धान्तसिद्ध चित्रज्ञाने नीलाकारत्वपीताकारत्वयोरिख वा साङ्ख्यमताभ्युपगतायामे कस्यां प्रकृती सवादित्रयात्मकत्वस्येव वा तत्तदपेक्षाभेदेन तयो. विरोधाभावात् । एतत्तत्वमग्रे निरूपयिष्यते । तथा चोक्तानुमानेन गुणवत्पुरुषप्रणीतत्वसिद्धौ य एवैतच्छासनकर्टगुणवत्पुरुषः स एव जिनः, तादृशपुरुषान्तराऽसम्भवात् , तदसम्भवश्वाने प्रतिपादयिष्यते । तदेवं शासनस्य जिनप्रणीतत्वसिद्धौ तत्र हेत्वन्तरानपेक्षणेन स्वत: प्रामाण्यं सावकाशमेव । यद्वा वाक्यरचनाम्प्रति वाक्यार्थज्ञानस्य कारणत्वेन तस्य यथार्थत्वे तस्याः प्रामाण्यम् , अयथार्थत्वे चाऽप्रामाण्यमित्यतश्शासनस्य प्रामाण्ये आप्रवक्तयथार्थवाक्यार्थज्ञानात्मकगुणजन्यत्वमेव तन्त्रम् , अन्यथा प्रामाण्यमेव न स्यादिति तादृशज्ञानात्मकगुणाधीनत्वाच्छासनस्य प्रामाण्यं परत इति गीयते तदापि तज्जैनानुमतमेवेति ।
"Aho Shrutgyanam"