________________
सम्मतिः काल , गा० । प्रणीतमेवाभ्युपगन्तव्यमिति भावः। ननु जिनास्सर्वथा रागादिजयोतानन्तार्थसाक्षात्कार. शालित्वात् सर्वज्ञा इति तत्प्रणीतमेवाविसंवादिवचनविशेषरूपं शासन निश्चितप्रामाण्यकमिति कुतः, बुद्धादीनामपि तदनुगैः सर्वज्ञतयाऽभिमतत्वेन तत्प्रणीतानामपि शासनानां निश्चितप्रामाण्यशालित्वादित्याशङ्कानिवृत्तये बुद्धादिशासनानामसर्वज्ञप्रणीतत्वमेवेति प्रति. पादनार्थमाह-'कुसमयविसासणं' कुसमयविशासनम् , कुसमया मिथ्यावासनावासितचित्तपुत्तिपरवादिप्रणीतप्रमाणबाधितार्थप्रतिपादकतत्तदर्शनान्तरसिद्धान्तास्तेषां दृष्टेष्टविषये विरोधाधुद्धावकत्वेन विशासनं विध्वंसकम् , तथा च दर्शनान्तरसिद्धान्तानां बाधितार्थप्रतिपादकत्वेनोन्मत्तवचोवदप्रामाण्ये सिद्धे कुसमयविशासनमिति विशेषणेन सर्वज्ञविशेषसिद्धेस्तत्प्र. णीतमेव शासन निश्चितप्रामाण्यमिति सिद्धम् । प्रयोगश्चात्र-इदं शासनं निश्रितप्रामाण्यवं जिनप्रणीतत्वात् यन्ने तन्नैवं तीर्थान्तरशासनवत् , न चास्य हेतोरसिद्धिः, अन्यथाऽनुपपद्य. मानप्रामाणिकातीन्द्रियाद्यर्थप्रतिपादकत्व हेतोस्तस्य सिद्धेरिति । अथ सर्वज्ञप्रणीतं शासनं, तत्प्रणीतत्वाच्च तत्प्रमाणमिति युक्तमुकम्, रागादीन् जितवन्त इति जिना इति त्वयुक्तमुक्तम् , सामान्ययोगिनि तस्य घटमानत्वेऽपि अनादिसंसिद्धे शासनादिसर्वजगत्स्रष्टरीश्वरे तस्याघटमानत्वात् , तत्र सहजत एव रागादिलक्षणक्लेशशत्रुरहितत्वस्य सद्भावात् , न पुनर्विपक्षभावनापरिपाकवशादेव तस्य रागादिक्षयः, येन तत्र रागादीन् तत्प्रतिपक्षवैराग्या भ्यासादिस्वव्यापारेण जितवन्त इति वचः सार्थकं जिनार्थप्रतिपादकत्वेन स्यादिति नित्येश्वरवादिनो ये मन्यन्ते तन्मतनिरासायाह-'भवजिणाणं' भवजिनानाम् । भवशब्देन भवकारणीभूता रागादयोऽत्रोपचाराद्विवक्षिताः, तान् जितवन्त इति भवजिनाः, तेषा शासनम्, तत्प्रणीतं तदिति यावत् , न तु पूर्वोक्तलक्षणेश्वरप्रणीतम् , दृढतरनिरन्तराभ्यस्ता. नित्यत्वादिद्वादशभावनाद्यात्मकं कर्मक्लेशादिजयोपायमन्तरेण स्वभावत एवेश्चरे कर्मक्लेशादि. विगमस्याऽसम्भवात् । उपचाराश्रयणे किं प्रयोजनमिति चेत् , उच्यते, न हविकलकारणे रागादावध्वस्ते तत्कार्यस्य संसारस्य जयः कत्तुं शक्य इति प्रतिपादनमेव, अथाखिलतस्वसाक्षात्कारे सति भवस्थजिना जीवन्मुक्तास्सन्तो योगिनः कंचन कालं भवेऽवतिष्ठन्ते इत्येवं न, किन्तु तदव्यवहितोत्तरसमय एव परममुक्तिमवाप्नुवन्तीति तत्र शरीराऽभावे वक्तृत्वासम्भवेन शासनप्रणेतृत्वोपपत्तिर्नेति ये मन्यते तन्मतनिरसनायाह-'ठाणमणोव. मसुहमुबंगयाणं' स्थानमनुपमसुखमुपगतानाम् , तिष्ठन्ति कर्मक्षयोत्पन्नानन्तज्ञानाचष्टगुण. शालिशुद्धात्मानोऽस्मिन्निति स्थानम् , लोकाप्रलक्षणम्, न विद्यते उपमा यस्य तदनुपमम् , अनुपमं सुखं यस्मिन् तत्तथा, तादृशं स्थानं 'उप' इति कालसामीप्येन गतानां प्राप्तानाम् , भवोपमाहिकर्मणां यावता कालेन क्षयस्स्यात्तावत्प्रमाणोऽल्पीयान् कालो व्यवधानभूतों येषां तेषामिति भावः, यद्वा 'उप' इत्युपसर्गः प्रकर्षवाची, तेन तादृशस्थानं प्रकर्षण गताना.
"Aho Shrutgyanam"