________________
बम्मति का गा . कारको यो जिनप्रणीतस्वव्यतिरिक्तहेत्वनपेक्षप्रामाण्यनिश्चयस्तद्विषयभूतम् । न चात्रोक्तहेस्व. सिद्धिः, श्रीतज्ञानमुत्पद्यमानं स्वप्रकाशत्वात् स्वमिव तद्गतप्रामाण्यमपि गृह्णाति, तस्य नियमेन स्वतो ग्राह्यत्वादिति तस्मिन् श्रौतज्ञाने प्रामाण्यज्ञाने सति तत्प्रतिबन्धेन तदुत्तरं संशयविपर्ययलक्षणं नैवाऽप्रामाण्यज्ञानं भवतीत्यतोऽप्रामाण्यज्ञानानास्कंदितज्ञानं स्वतः प्रामाण्य. ज्ञानं तद्विषयभूतं यत्प्रामाण्यं तद्विशिष्टं यच्छ्रौतयथार्थज्ञानं तञ्जनकत्वहेतोश्शासनपक्षे सच्चात् । तच्चाने विवेचयिष्यते । इदमत्र तत्त्वम्-इदं शासनं प्रमाणमेवेति प्रामाण्यनिश्चये एक्कारेणाऽप्रामाण्यं तत्र व्यवच्छिद्यते, तेन च सर्वांशे शासनस्य प्रामाण्यमावेदितं भवति, अन्यथा किश्चिदंशे यथार्थज्ञानजनकं किञ्चिदशेऽयथार्थज्ञानजनकमपि यदि जिनशासनं स्यात्तदाऽपि यदंशे यथार्थज्ञानजनकं तदंशे प्रमाणं भवत्येवेति नान्यागमतो वैशिष्ट्यमस्य स्यात् , ईदृशप्रामाण्यनिश्चयश्च सर्वथा यथार्थज्ञानजनकत्वाद् यथार्थज्ञानमात्रजनकत्वाद्वा, न तु यथार्थज्ञानजनकत्वात् , किश्चिदंशे यदयथार्थ किश्चिदंशे च यथार्थ तादृशज्ञानजनकेऽपि तस्य सवात् , तदेव यथार्थज्ञानं सर्वथा यथार्थज्ञानरूपं यथार्थज्ञानमात्र वा यदप्रामाण्याऽमहचरितप्रामाण्य. विशिष्टं, तदेव च प्रामाण्यमप्रामाण्याऽसह चरित, यदप्रामाण्यज्ञानानास्कन्दितज्ञानविषयः, अप्रामाण्यसहचरिते तु प्रामाण्ये अप्रामाण्यज्ञानास्कन्दितज्ञानविषयत्वेनाप्रामाण्यज्ञानाना. स्कन्दितज्ञानविषयत्वाऽसम्भवात् । यद्यपि सर्वथा यथार्थज्ञानजनकत्वाद् यथार्थज्ञानमात्र. जनकत्वाद्वेत्यपि हेतुः सम्भवति, तथापि सर्वथात्व-यथार्थज्ञानमात्रत्वायत्रगमार्थमग्रामाध्यज्ञानानास्कन्दितज्ञानविषयप्रामाण्य विशिष्टत्वावगमस्यापेक्षणीयत्वेन तस्यैव हेतुघटकत्वेन प्रवेशः, ईदृशविचारानादरे तु यथार्थज्ञानमात्र जनकत्वस्यैव प्रामाण्यव्याप्तत्वातज्ज्ञानादेव प्रामाध्यनिश्चयस्य सम्भवेनाऽप्रामाण्यज्ञानानास्कन्दितज्ञानविषयप्रामाण्यस्य यथार्थज्ञानविशेपणतयोपादानं विफलमेवेति बोध्यम् । ननु शासनं सिद्धमुक्तलक्षणस्वतो निश्चितप्रामाण्यकमित्येव कुत इत्याशङ्कानिवृत्त्यर्थमाह-'जिणाणं' जिनानाम् , रागादीन् जितवन्त इति जिनाः, तेषां जिनानाम् । अस्य शासनमित्यनेनान्वयः, तथा च शासनस्य कृदन्तत्वात्तद्योगे जिनानामित्यत्र कर्बर्थे विहितायाष्षष्ट्या अर्थस्य कर्तृत्वस्याधेयत्वसम्बन्धेन प्रकृत्यर्थजिनान्वितस्य निरूपकत्वसम्बन्धेन शासनेऽन्वयात्तजिनकर्तृकं, जिनप्रणीतमिति यावत् । यो हि रागद्वेषाऽज्ञानादिदोषपरामृष्टस्तस्मिन्नल्पज्ञे पुंसि भ्रमप्रमादविप्रलिप्साकरणाऽपाटववचनाकौशलादिसम्भावन या तत्प्रणीतं वचनं सन्दिग्धप्रामाण्यकं स्यात् , जिनास्तु सर्वथा रागद्वेषमोहपराजयानन्तरमशेषजगत्तच्चसाक्षात्कारे सत्येव भवन्तीति तत्र भ्रमप्रमादादयो न केऽपि दोषास्सम्भवन्तीत्यतस्तत्प्रणीतं शासनं सिद्धमेवेति । नन्विदं शासनं जिनप्रणीतमेवेति कुत इत्याशङ्कायामाह-'सिद्धत्थाणं' सिद्धार्थानां, अत्र षष्ठ्याः प्रतिपादकत्वार्थकत्वेन प्रमाणान्त. राऽविसंवाद्यर्थप्रतिपादकमित्यर्थः । अस्य हेतुविषया विशेषणत्वाद् जिनप्रगीतत्वमन्तरेगानुपपद्यमानस्य प्रमाणान्तराऽविसंवादिसूक्ष्मवादरदान्तरितार्थप्रतिपादकत्वहेतोरिदं शासनं जिन.
"Aho Shrutgyanam"