________________
सन्मति काण्ड १, गा० १
मानजिज्ञासाग्रहणधारणादिप्रज्ञोदयक्रमेणाऽविघ्नैतच्छाख पारगमनादिफलकं, वर्कप्रज्ञानुसारिशिष्यस्यापि च "1 अभ्यासाख्यभ्यासोऽभिवर्धते " इति न्यायात् प्रज्ञादीनां गुणानामभ्यासातत्पुरुषेषु तत्तत्काले तरतमादिभावेन प्रकर्षदर्शनात् कस्मिँश्चित्पुरुषविशेषे मिध्याज्ञानादेस्समूलकाएं कषणात् सर्वोत्कृष्ट प्रकर्षकाष्ठापन्नज्ञानोत्पत्तेः नूनं जगति सम्भाव्यत एव विश्वविश्वशेषतश्वयथार्थवेत्ता सर्वज्ञो भगवान् । किश्च यस्य यस्स्वभावस्य प्रतिबन्धेन प्रतिबद्धस्सन् न स्वकार्यसाधनप्रभविष्णुः, प्रतिबन्धाभावे चानिर्गलतया स्वकार्य साधयत्येव यथा वह्नेर्दाह्यदाहकत्वस्वभावस्सूर्यकान्तमण्य भाव विशिष्ट चन्द्रकान्तमणिना प्रतिबद्धो न दा दहति, तदभावे च दाह्ये सति तदहत्येव तथा सर्वज्ञेयावभासित्वं चिदात्मनः स्वभाव एव, छद्मस्थात्मनि तत्प्रतिबन्धस्तु ज्ञानावरणीयादिघातिकर्मात्मकप्रतिबन्धककृत एवेति प्रतिबन्धकीभूतसकलघातिकर्मापगमे सत्याविर्भूतेन तेन स्वभावेनानन्त पर्यायालिङ्गितजीवाजीवादिनिखिलजगत्तच्च प्रकाशनात्सुतरां सिद्धमेव भगवतस्सर्वज्ञत्वमिति । तदुक्तम्" ज्ञो ज्ञेये कथमज्ञस्स्या - दसति प्रतिबन्धके ।
दाह्येsनिर्वाहको न स्यात्, कथमप्रतिबन्धकः ॥ १ ॥ इति । " तथा च कस्यचित्पुंसो ज्ञानं सकलार्थ साक्षात्कारि तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययस्वात्, यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीण प्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि, यथापगततिमिरादिप्रतिबन्धं चाक्षुषज्ञानं रूपसाक्षात्कारि, सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं च कस्यचित्पुंसो ज्ञानं, तस्मात्तथा, न चात्र हेतुर्विशेषणासिद्ध्याऽसिद्धः, आगमद्वारेणाशेषार्थग्रहणस्वभावत्वस्य ज्ञाने प्रसिद्धत्वात् नापि विशेष्या सिद्ध्याऽसिद्धः, सकलार्थग्रहणस्वभावे ज्ञाने प्रतिविम्वस्वभावे आदर्श मलमित्र रागादय एव प्रतिबन्धकाः, तेषामात्यन्तिकक्षयस्य सम्यग्दर्शनज्ञानवैराग्यादीनां परमप्रकर्षेण सिद्धेः, यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य परमप्रकर्षे तदत्यन्तं प्रक्षीयते, यथोष्णस्पर्शस्य परमप्रकर्षे शीतस्पर्श इति नियमात् । तथा चोक्तयुक्तिप्रयुक्तिपूर्वकानुमानतस्सकलार्थ साक्षात्कार सङ्घटितमूर्तिसर्वज्ञ जिन सिद्धेस्तत्प्रणीतं शासनमपि निश्चितप्रामाण्यादियथार्थगुणमित्येवं निश्चिन्वतस्स बहुमानमङ्गलश्रवणतश्चित्तप्रसादोत्पच्या परीक्षापूर्वकतदभिहिततच्च श्रवणमनननिदिध्यासनद्वारा श्रुतप्रज्ञाजनकपठ्यमानैतत्प्रकरणनिर्विघ्नाध्ययनपरिसमाप्त्यादिफलकमित्य तरिशष्टाचारानुमितकर्त्तव्यवाकं तन्मङ्गलं शास्त्रं प्रणेतुकामः स्वशास्तु महात्म्यज्ञापनार्थं ग्रन्थघटकीभूतं करोति । " सिद्धं सिद्धत्थाणं, ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं, सासणं जिणाणं भवजिणाणं ॥ १ ॥
#7
'सासणं' यथावस्थितार्थप्रतिपादकं द्वादशाङ्गधात्मकं शासनं 'सिद्ध' इदं शासनम् - अप्रामाण्यज्ञानानास्कन्दितज्ञानविषय प्रामाण्यविशिष्टयथार्थज्ञानजनकत्वात् प्रमाणमेवेत्या
"Aho Shrutgyanam"