________________
सम्मति० काण्ड १, मा० १
वासिनां
तानि च द्रव्यानुयोगशास्त्राणि भगवच्छ्रीगणधरश्रुतधरादिप्रणीतततच्छास्त्राणि अन्य• तीर्थिकप्रज्ञापनागोचरातीतपदार्थसिद्धिमाधनानि द्रव्यानुयोगविषयानन्तगहनपदार्थ रत्नभृतत्वेनाऽशेषन पतरङ्गव्याप्तत्वेन च समुद्रकल्पानि मन्दमेघोभिर्दुरवगाहाणि यथार्थतया दुःशक्यार्थाधिगमानि च यथा समुद्रं दृष्ट्वा तरणोपायमजानतां पुंसां सुखेन बाहुभ्यां प्रतरामीति नैव चित्तवृत्तिर्भवति, अतिसाहसवृत्त्या प्रतरणप्रवृत्ता अप्यल्पमात्रं गता दुरुत्तरोऽयमिति मत्वाऽतिखिन्नाः प्रतिनिवृत्ता नैव तत्पारं प्राप्नुवन्ति तद्वत्प्रकृतेऽपीति बुद्धा तदनुग्रहार्थमहत्प्रवचनसमुद्रोध्धृतद्रव्यानुयोगविषयतत्तत्तच्चरत्नानां संक्षेपतस्सग्राहकं अखिलनय संमर्दगहनं महात के सुखपूर्वक तन्त्रग्रहणधारणनिश्चयजननयोग्यं "सम्मतितर्काख्यप्रकरणम्" नदीतडागादिव - वलवदनिष्टाननुबन्धित्वाच्छक्योपायतया कालसंहननायुर्दोषादल्पप्रज्ञाशक्तीनामपि विनीतान्तेप्रमाणनयभङ्गयादिगम्भीरतच्च जिज्ञासू नामपूर्वतच्च निरन्तरग्रहणाऽनुपमभक्तिबहुमानसीचीनापूर्वोल्लासशालिमानसानां सुशक्यावगाहं सुशक्यार्थाधिगमञ्चाल्पेनैव तवावबोधपाटवाधानसमर्थेनैतेन ग्रन्थेनानर्ध्यानल्पार्थरत्नान्येतेऽनाबाधमवाप्नुवन्त्वितीच्छया कर्त्तुकामो विनयादिप्रसन्नमद्गुरुनिस्सीमानुपकृत कृपासुधा सम्यगभ्यस्ततदर्थोपबृंहितबुद्धीनां तेषां सूक्ष्मेक्षिकया द्रव्यानुयोगप्रधान शास्त्रसमुद्रावगाहोऽप्य मूल्यरत्नोप मतदर्थाधिगमोऽपि च सुशक्य एवेति मन्वानः areज्ञानिमनःपर्यायज्ञान्यादिभगवदर्कास्तंगममव्यात्महृदयगुहाव्यासमहामिथ्यात्वान्धकारविध्वंसकत्वे नावाप्तयथार्थनामा तार्किकशिरोमणितातपादश्रीसिद्धसेनदिवाकरः सकलजगजीव परमार्हच्छासन र सैकलीनताचिकीर्षा लक्षण करुणैकव्याप्तचेता अमृतवर्षेणेत्र यथार्थतत्रोपदेशसुधावर्षेण प्रफुल्लितसहकारवनमिव प्रवर्त्तितामोदविस्तारं प्रभुशासनं प्रफुल्लभावमानीय भव्यात्मनां जलदवत्तत्सौरभ्याऽऽप्राणानन्दं प्रदित्सुः अर्हतामर्हता शासनपूर्विकेत्यतः पूजितपूजको लोक इति न्यायेन च सुधामधुरया गिरा शासनार्थोपदेशसमये " णमो तित्थस्स " इत्युक्तिपूर्वक त्रिलोकज्ञ भगवन्नमस्कृतं शासनमेव भवचक्रकृच्छ्राप्तं स्तुत्यर्हम्, ऐदंयुगीनात्यन्तपरमार्थहितावहस्य तस्य च यथार्थगुणसम्पत्स्तुतौ स्वश्रद्धागुणोपबृंहकतर्कावतारगर्भायां विशिष्टभक्त्यभिव्यञ्जिकायां कृतायां तत्प्रणेताऽपायापगमादिविविधातिशयर्द्धिशाल्यर्हत्प्रभुरपि तद्द्वारा स्तुत एवेति निश्चिन्वन् कल्याणपरम्परैकहेतुतत्स्तुत्याऽनुत्तरभाग्यलब्धया कृतार्थमात्मानमभिमन्यमानस्तदसाधारणानवद्यान्यानपेक्षितनिष्टङ्कितप्रामाण्यकत्व पर समयाप्रामाण्यज्ञापकत्वभव जिनप्रणीतत्वादिगुणस्तुत्यात्मकभावमङ्गलं स्वस्य तद्विधानोद्भूता पूर्व शुभ भावोल्लासतः प्रारिप्सित समाप्तिप्रतिबन्धक दुरितविशेषनिवर्त्तकतावच्छेदकशक्तिमत्तया प्रारिप्सित समाप्तिप्रतिबन्धकविघ्नव्रातविघातद्वारा ग्रन्थसमात्यादिफलकम्, उक्तलक्षणमङ्गलश्रवणैकतानभूतस्य श्रद्धानुसारिशिष्यस्यापि च संसाराब्धिनिमजत्प्राणिगणोद्दिधीर्षु भगवत्प्रणीत शासन सत्कैतत्प्रकरणकारोद्भावित यथार्थगुण श्रवणमात्रेणासंशयं शासनविषयकाविच्छिन्नोल्लासशालिचित्तप्रसादमातन्वानस्य शासनाभिधेयतच्च विषयक बहु
" Aho Shrutgyanam"