________________
सम्मति० काण्ड १, गा० । स्स्यादिति । ननु सम्यग्दर्शनादित्रयाणां समूहस्यैकस्यान्वव्यतिरेकाभ्यां कारणत्वमहाभ्यु. पगमो न युक्तः, घटत्वावच्छिन्नम्प्रति दण्डत्वेन मृचादिना च प्रत्येकरूपेण दण्डमृदाहीनां कारणत्वे सिद्धे तत्समूहस्यान्यथासिद्धत्ववत् सम्यग्दर्शनत्वेन सम्यग्ज्ञानत्वेन सम्यक्चारित्रत्वेन च प्रत्येकरूपेण सम्यग्दर्शनादीनामन्वयव्यतिरेकाभ्यां कारणत्वे सिद्धे तत्समूहस्याप्यऽन्यथासिद्धत्वादिति चेत् , मैवम् , परस्परनिरपेक्षकैककारणमात्रेण स्वरूपयोग्येनापि तत्र फलोपधानरूपकारणत्वाभावान्मोक्षकार्योत्पश्यभावेन मोक्षम्प्रति परस्परसापेक्षतत्तत्कारणसमूहस्यैवान्वयव्यतिरेकाम्यां कारणत्वात् , अत एव " नैकं कारणं किन्तु सामग्री वै जनिका" इति सिद्धान्तस्सङ्गच्छते । न च क्षायिकसम्यग्दर्शने सति केवलज्ञानमुत्पद्यते, तेन च सर्वसंवराख्यचारित्रमिति तेषां व्यापारव्यापारिभावेनैव मोक्षकारणत्वम् , न साक्षादिति तत्समूहस्यापि न तदिति वाच्यम् , व्यापारकाले व्यापारिणो नाशो नावश्यकः, व्यापार लक्षणे द्वारिनाशविशिष्टत्वाऽप्रवेशादिति सर्वसंबराख्यचारित्रकाले समुदिततत्रितयस्यैव मोक्षफलोपयोगितया व्यापारान्मुख्यत्वाविशेषाप्रमाणविवक्षया तत्समूहस्यैव मोक्षकारणत्वात् । " तिण्डं समायोगेण नेहाणं लम्भति" इत्युक्तेः। यद्यपि मोक्षानुकूलसम्पूर्णशक्ति. स्सम्यग्दर्शनादित्रयपर्याप्तसमुदायत्वावच्छेदेन परस्परसापेक्षसमुदितज्ञानादिषु त्रिवेव पर्याप्ता, तत्र फलोपधानसामर्थ्य सद्भावात् , तथापि सम्यग्दर्शनत्वादिप्रत्येकधर्मावच्छेदेनाप्येकैकेषु सम्यग्दर्शनादिषु " वीसु ण सबच्चिय, सिकतातेलं व साहणाऽभावो। देसो. वगारिया जा, सा समवायम्मि संपुण्णा ।। ११६४ ॥” इति विशेषावश्यकभाष्योक्तेः प्रत्येकावस्थायामपि देशोपकारित्वाद्देशतो मोक्षानुकूलशक्ति सद्भाव इति तच्छक्तिशालिसम्यग्दर्शनं शिथिलबन्धनबद्धं महामिथ्यात्वोदये कदाचिद्विनश्यत्यपीति मोक्षाभिलाषुकै. स्तच्छुद्धिः सन्देहविषौषधिकल्पा मिथ्यात्वमहार्णवतारणतरिका मिथ्यावासनाग्रहमत्रकल्पा कर्तव्या, सा च यथार्थद्वाभ्यस्तेभ्यः प्रमाणनयकरणकषद्रव्यगुणपर्याय. विचारप्रधानकद्रव्यानुयोगशास्त्रेभ्यः । उक्तश्च-" दविए दंमणसुद्धी दसणसुद्धस्स चरणं तु" इति । अयं स्वसमयः प्रमाणनयैरनेकान्ततत्वप्रतिपादकत्वात् , अयश्च परसमयो नयान्तरनिरपेक्षनयगोचरैकान्ततत्वप्रतिपादकत्वादित्येवं स्वसमयपरसमयपरिज्ञानेनेतरव्य. बच्छेदेनानेकान्ततत्वावबोधमन्तरेण चरणकरणप्रधाना गीतार्थगुर्वाज्ञाऽनधीनप्रवृत्तिकाश्चरणकरणयोस्सारमपि निश्चयशुद्धं बाह्यदृष्टयो नेव जानन्ति, किन्तु परसमयतचाऽप्रामाण्यज्ञापन पूर्वकानेकान्तात्मकस्वसमयतचप्रामाण्यनिश्चयार्थ प्रमाणनयाधीनद्रव्यगुणपर्यायविषयकनिरन्तरयत्पर्यालोचनं तदात्मकान्त इष्टिबुद्धजना एवं जानत इति सुधारसातिशायिभगवन्मु. खाजनिर्गततच्चामृतरसपिपासुभिः स्वपरसमयतत्वं बहुश्रुतगीतार्थगुरुभगवन्मुखेन पठित्वा श्रुत्वा वा सतात्पर्य विभाज्य विनिश्चित्य च तत्सारभूतद्रव्यानुयोग एवं दृढीकर्तव्यः, येन सम्यग्दर्शनं विशुद्धतरं स्यात् । तच्चाने ग्रन्धकार एवं स्पष्टीकरिष्यति ।
"Aho Shrutgyanam"