________________
सम्मति० काण्ड १ ० १
#1
भावे कालान्तरे मुक्तिफलोत्पत्तेः । प्रमाणार्पणया तु पर्यालोच्यते, सम्यग्दर्शनसम्यग्ज्ञानसम्यक् चारित्राणां त्रयाणां स्वस्वाऽसाधारणधर्मरूपेण सम्यग्दर्शनत्वादिना न मोक्षं प्रति कारणत्वम्, तथा सति कारणतावच्छेदकभेदेन कारणताभेदप्रसक्त्या मोक्षं प्रत्येककारणत्वं सिद्धं न स्यात्, किन्तु मोक्षानुकूलशक्तिमन्वेनैव कारणत्वमपि न नैयायिकाभ्युपगतकार्यनियतपूर्ववर्तित्वलक्षणं सखण्डरूपम्, तृणत्वमणित्वारणित्वादिप्रत्येकधर्मेण ह्नित्वावच्छिन्नम्प्रति कारणत्वे व्यतिरेकव्यभिचारस्स्यादिति तन्निवृत्तयेऽनन्यगत्या कार्ये वैजात्यमभ्युपगम्य विजातीय वह्नित्वावच्छिन्नम्प्रति तृणत्वेन, विजातीयवह्नित्वावच्छिन्नं प्रति मणिवेन, विजातीय वह्नित्वावच्छिन्नं प्रत्यरणित्वादिना च कारणत्वाभ्युपगमे विशेषरूपेणानेककार्यकारणभावप्रसङ्गतो यावत्सु वह्निजनकेष्वनुगता या शक्तिस्तद्रूपेण नियतकार्य कारणभावापेक्षा गौरव भारमन्थरत्वात्तत्पक्षस्य प्रमाणपथातीतत्वात् किन्त्वखण्डशक्तिरूपमेत्र, सम्यग्दर्शनत्वं सम्यग्ज्ञानत्वं सम्यक्चारित्रत्वञ्च शक्तेरभिव्यञ्जकविधयाऽवच्छेदकम्, कारण ताज्ञाने तदवच्छेदकज्ञानं कारणमिति नियमेन भवन्मते धर्मविषयाऽवच्छेदकज्ञानमपेक्षितम्, अस्मन्मते त्वभिव्यञ्जकविधयेत्ययं विशेषः सर्वत्र कार्यकारणभावे ज्ञेयः । न चैकस्यानेकाभिव्यङ्ग्यत्वमनुभवपथातीतमिति वाच्यम्, " किञ्चाभिव्यज्यते जातिः संस्थानादू येन केनचिद् । गोत्वं लागूलशृङ्गादिसंस्थानवशतो यथा इति स्याद्वादरत्नाकरपञ्चमपरिच्छेदाऽष्टमसूत्रवृत्तिवचनात् क्वचित्सास्नातः क्वचिच्च विलक्षणलाङ्गूलात् क्वचिश्च विलक्षणगृङ्गाद्दृष्टादभिव्यङ्ग्यतयैकस्य गोत्वस्यानुभवगोचरत्वादेव, तस्य चाभिव्यञ्जकस्य सम्यग्दर्शनत्वादेः प्रत्येकवर्त्तिनस्सम्यग्दर्शनादित्रितय व खण्डशक्तिरूपकारणत्वापेक्षया न्यूनवृत्तित्वेऽपि न क्षतिः, सखण्डकारणताया अवच्छेदकस्यैवाऽन्यूनानतिरिक्तवृत्तित्वनियमात् । ननु शक्तिमत्वेन कारणत्वे कारणताज्ञाने तदवच्छेदकज्ञानस्यापेक्षितत्वेन कारणतावच्छेदिकायाश्शक्तेर्ज्ञानाच्छक्तिरूपकारणताज्ञानम्, तज्ज्ञाने च तज्ज्ञानमित्यात्माश्रय इति चेत्, मैत्रम्, प्रतियोगिताज्ञाने प्रतियोगितावच्छेदकज्ञानस्य कारणत्वमित्यत्रापि घटाभावीय प्रतियोगितायाः प्रतियोगितावच्छेदकघटत्वरूपत्वपक्षे आत्माश्रयदोषपरिहाराय घटत्वत्वेन घटत्वात्मकावच्छेदकज्ञानं प्रतियोगितात्वेन घटत्वात्मक प्रतियोगिताज्ञानं प्रति कारणमिति यथा नैयायिकैस्स्वीक्रियते तथाऽस्माभिरपि शक्तित्वेनावच्छेद की भूतशक्तिज्ञानं कारणतात्वेन शक्त्यात्मक कारणताज्ञानं प्रति कारणमित्यभ्युपगमेनोक्तदोषाभावात् । तथा च मोक्षानुकूलशक्तिमत्वावच्छिन्नशक्तिरूपं कारणत्वं परस्परसापेक्षसम्यग्दर्शनादिषु त्रिष्वेकमेति स्थितम् । अत एव " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति तत्त्वार्थ प्रथमसूत्रे मार्गपदोत्तर सिप्रत्यय प्रकृत्यर्थतावच्छेदके मोक्षानुकूलशक्तिमच्वेन रूपेण मोक्षं प्रति मार्गत्वाstrपर्यायकारणत्वे एकत्वज्ञापनार्थ मार्गपदोत्तर सिप्रत्यय प्रयोगो विहितः, अन्यथा असति बाधके विशेष्यविशेषणपदयोस्समानचचनकत्वमिति नियमान्मार्गपदोत्तरजविभक्तिप्रसङ्ग
४
"Aho Shrutgyanam"