________________
सम्मति• काग-1, गा. कालाभावेनाऽभावेऽपि नोक्तदोषः । ननु मोक्षं प्रति दर्शनत्वेन ज्ञानत्वेन चारित्रत्वेनैव दर्शनादीनां कारणत्वमस्तु, किं तत्र सम्यग्पदोपादानेन कारणतावच्छेदकगौरवापादकेनेति चेद्, मैवम् , तथा सति मिथ्यादर्शनमपि मिथ्याज्ञानमपि तस्वश्रद्धाविकलचारित्रमपि च मोक्षकारणं स्यात्, न चान्वयव्यतिरेकानुविधानाऽभावान्मिथ्यादर्शनादिकं मोक्षकारणमभ्युपगन्तुं युक्तमिति तद्वारकतया सम्यग्विशेषणस्य सार्थकत्वेन सम्यग्दर्शनादेः सम्यग्दर्शनस्वादिनैव मोक्षं प्रति कारणत्वं युक्तियुक्तम् , न तु दर्शनत्वादिना, दर्शनत्वस्य मोक्षकारणस्वाभाववति भव्याभव्यपुरुषीयमिथ्यादर्शनेऽपि ज्ञानस्वस्य च तादृशपुरुषीयमिथ्याज्ञानेऽपि चारित्रत्वस्य च जिनोक्ततत्वश्रद्धाविकले तादृशपुरुषीयद्रव्यचारित्रेऽपि वृत्तित्वेन मोक्षनिष्ठकार्यतानिरूपितकारणत्वातिरिक्तवृत्तितया कारणताऽतिप्रसक्तत्वेन कारणतानवच्छेदकत्वादिति । अनुमानश्चात्र तत्तन्नयभेदेन सम्यग्दर्शनादित्रयं मोक्षासाधारणकारणं मोक्षाभावप्रयोजकामावप्रतियोगित्वाद्, यद् यदभावप्रयोजकाभावप्रतियोगि तत्तदसाधारणकारणम् , यथा घटस्य दण्डः, तथा चेदं तस्मात्तथेति नयविवक्षयाऽन्वयव्य. तिरेकाम्यां सम्यग्दर्शनत्वादिना मोक्षम्प्रति सम्यग्दर्शनादित्रयमपि कारणम् , घटत्वावच्छिन्नम्प्रति मृद्दण्डचक्रचीवरादिकमिव, न च सर्वसंवरचारित्रलक्षणचरमकारणमात्रेणैव कार्ये सिद्ध तत्पूर्ववर्तिनः क्षायिकसम्यग्दर्शनस्य केवलज्ञानस्य चाऽन्यथासिद्धिः, व्यवहितत्वादिति वाच्यम् । चरमकारणस्य तत्पूर्ववर्तिनः कारणत्वरक्षणार्थमेव यत्र व्यापारविधया कल्पनं न च तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धिः, अन्यथा दण्डादेरपि चक्रभ्रमणक्रिययाऽन्यथासिद्धिस्यात् , स्याच परामर्षेण व्याप्तिज्ञानस्यान्यथासिद्धिः, एवं क्षायोपशमिकसम्यक्रियायाः केवलज्ञानोत्पादन एवोपक्षीणत्वात्तस्यास्तेन मोक्षकार्य प्रत्यऽन्यथासिद्धिस्स्यादिति तदुभयस्य कारणत्वे सिद्धे व्यापार एव कारणं न व्यापारी, व्यापार्येव कारणं न व्यापार इति विनिगन्तुमशक्यत्वात् , सर्वसंवरचारित्रकाले क्षायिकसम्यग्दर्शनकेवलज्ञानयोरपि विद्यमानत्वेन फलोपयोगितया मुख्यत्वाऽविशेषात् । आधुनिकदर्शनादिष्वपि मोक्षानुकूलनिर्जराविशेषप्रयोजकविशेषाश्रयत्वं सम्यक्त्वं प्रत्येकमव्याहतमिति त्रयाणां तुल्यवत्कारणत्वं नयाप. णया नानुपपन्नम् । एतेन कारणीभूतसम्यग्दर्शनादित्रयप्राप्तावपि तत्रयेण तद्भवे मोक्षफलं मवत्येवेति नैव नियमा, ऐदयुगीनकालस्यातिविषमत्वेन सम्यग्दर्शनादित्रये सम्यग्यतमानानामपि तत्तत्पुंसां तत इदानीं मोक्षानवातेरितीदानी सम्यग्दर्शनादिषयप्रात्यर्थं प्रवृ. सिनिष्फलैवेत्यारेकाऽपि निरस्ता, मोक्षफलोत्पत्तिर्हि न साक्षात्सम्यग्दर्शनादित्रयेण, किन्तु समुदिततत्रयसाध्यविशिष्टकर्मनिर्जराद्वारैव, स्मृतिफलोत्पत्तिरनुभवतस्संस्कारद्वारेव, मीमांसकमते स्वर्गफलोत्पत्तिगतः प्रधानाऽपूर्वद्वारेव वेति ताशनिर्जराद्वारसम्पत्ती सम्यग्दर्शनादित्रयप्रवृत्तेरिदानीमपि तत्साफल्यस्यानपायत्वात् , उक्तनिर्जराद्वारसम्पत्तौ ततः पूर्वकालीनसम्यग्दर्शनादित्रयस्यैव परमकाष्ठापनक्षायिकसम्यग्दर्शनादित्रयरूपेण परिणति
"Aho Shrutgyanam"