________________
सम्मति पाल, गा. द्रव्यानुयोगाल्पतरार्थभासा, क चाल्पधीमें विषमेऽपि तत्वे । सत्यप्यहं वच्मि गुणः स एष, सर्वःप्रणीता किल येन वृत्तिः ॥५॥ सयुक्तिविक्षिप्तकुवादियुक्तिः, तस्यैव पूज्याभयदेवसूरेः । यन्निम्नमार्गेऽपि समीकृतेऽच्छे, वज्रेण यान्त्यल्पधियोऽपि शीघ्रम् ॥६॥
(त्रिभिर्विशेषकम् ) __ अथ पुनः पुनर्जन्मजरामृतिरूपापारनीरनिकरपूरितं बहुप्रकारपरिभवपातालोल्वण मनल्पमोहमहावर्तदुरुत्तरमनेककदाग्रहग्राहनिवहमुदग्रमिथ्यात्वकालकूटसम्मूञ्छितमनवरतोप जायमानमनोरथमहोमिमालाव्याकुलं कषायवडवानलज्वालाकरालं व्याधिशतनक्रचक्रालरं पश्यतां त्रासोत्पादकं महागम्भीरं संसारसमुद्रमुत्तितीर्षतां भव्यजनवातानां तदुत्तरणेऽख्याहर मुख्यसाधनमगानङ्गभेदभित्रागमाऽशेषतत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनप्रवहणमेव । तदुक्तम्
" द्वारं मूलं प्रतिस्थान-माधारो भाजनं निधिः।।
धर्मेहेतोर्द्विषट्कस्य, सम्यग्दर्शनमिष्यते ॥ १॥" इति। न सेणिओ आसि तया बहुस्सुओ, न या वि पन्नत्तिधरो न वायगो। सो आगमिस्साई जिणो भविस्सह, समिक्ख पन्नाइ वरं खुदंसणं॥२ । इति च ।
न चैवं तर्हि पोतायमानसम्यग्दर्शनोत्पत्तौ सत्यां तद्वतां तदनन्तरमेव भवसमुद्रोत्तरणं किमिति न भवतीति वाच्यम् , न हि मृद्रव्यमात्रेण दण्डमात्रेण वा घट उत्पद्यमानो लोकैरनुभूयत इत्येकं कारणं निखिलकारणान्तरसापेक्षमेव कार्योत्पादनसमर्थमित्यत्रापि कारणान्तराऽभावात् । तथा च तदितरकारणसद्भावे सति सम्यग्दर्शनसच्चे मोक्षसत्त्वं तदितरकारण सत्त्वेऽपि तदभावे तदभाव इत्यन्वयव्यतिरेकबलान्मोक्षाऽसाधारणकारणं सम्यग्दर्शनमिति सिद्धम् । एवमेव सम्यग्ज्ञानं सम्यक्चारित्रश्चाप्यन्वयव्यतिरेकाम्यां मोक्षं प्रत्यसाधारणकारणं ज्ञेयम् । तथा च यथा शिविकोद्वाहिपुरुषा मिथः सापेक्षभावं गता एव शिबिकोद्वहनात्मककार्य प्रति कारणं तथैव सम्यग्दर्शनज्ञानचारित्राणि परस्परसापेक्षतां गतान्येव मोक्षं प्रति कारणमित्याशयः । ननु पूर्वोक्तान्वयव्यतिरेकाम्यामस्तु सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च कारणत्वम्, न च चारित्रस्यापि तद् युक्तम् , मरुदेवामातुव्यचारित्ररूपकारणाभावेऽपि मोक्षात्मककार्योत्पत्तिभावेन व्यतिरेकव्यभिचारादिति चेद् , मैवम् , यतो न द्रव्यचारित्रत्वेन मोक्षं प्रति चारित्रस्य हेतुत्वम् , किन्तु सम्यक्चारित्रत्वेनैव, तद्धर्मावच्छिन्नेनैव सह मोक्षस्यान्वयव्यतिरेकानुविधानात् । तस्य च परमकाष्ठापनस्य सर्वसंवररूपस्य भावचारित्रस्य शैलेशीकरणकाले सद्भाबादेव तस्याः मुक्तिभावात् , तथा च तदा तस्या अवशिष्टान्तमुहर्तायुष्काया द्रव्यचारित्रग्रहणेच्छाप्राबल्येऽप्यायुषोऽल्पकालतया द्रव्यचारित्रस्य ग्रहण
"Aho Shrutgyanam"