________________
ॐ अई नमः ॥ सदामोदोल्लासिसकलजनतापापहारिनिर्मलवाणी-विलासायानल्पलब्धिनिधानाय श्रीगौतमस्वामिने नमः । न्यायव्याकरणसिद्धान्तादिपारावारसमवगाहनसमुपलब्धानल्पतत्त्वमणिसन्दब्धादभ्रग्रन्थ
मालेभ्यः शासनसम्राट् सूरिचक्रचक्रवर्तिश्रीविजयनेमिमूरिसद्गुरुभ्यो नमः ।। तत्पभुवनभानु-न्यायवाचस्पति-शास्त्रविशारदविरुदविभूषित-तपागच्छभट्टारकाऽऽचार्यश्रीविजयदर्शनसुरिप्रणीत "सम्मतितर्कमहार्णवावतारिकाख्यटीका"
समलङ्कृतं श्रीविक्रमादित्यादिमहाभूपतिप्रतिबोधक-महातर्कवादि. शिरोमणि-श्रीसिद्धसेनदिवाकरमगवत्संदृब्धं सम्यग्दर्शनविशुद्धिक
द्रव्यानुयोगगहनकुशाग्रबुद्धिगम्यानल्यामलतत्वप्रतिपादकं स्याद्वादसिद्धान्तोपनिषद्विचारश्रेणिप्रौढवलाधायक
श्रीसम्मतितकेप्रकरणम्॥
मंगलाचरणम् न जात्वस्तं यायी न जलदनिरुद्धामलविभो, गवा भत्ता नित्यं नहृदयगुहावर्तितमसां । सदा राहग्रस्योऽखिलभविकजोद्बोधनपरः, जयत्यहन् सूर्योऽतिशयमहिमा पार्श्वजिनराट् यदीयस्याद्वादामितनयतरङ्गालिललितागमाब्धिस्यान्मात्रामलपदपृषत्सङ्गतिवशात् । विदृप्यद्वाद्यालिस्वमतिजनितत्तन्नयविषं, स्तुवे द्राक् पीयूषीभवति तमहं वीरजिनपम् ॥ ॥२॥ काम्बोजवाजीव हयेषु सर्व,-र्षिष्विद्धतेजा शमितारिवर्गः। श्रीसूरिसम्राड् गुरुनेमिसूरिः, शुभाशिषं मेऽत्र तनोतु कार्ये ॥३॥ सिद्धान्तपाथोनिधिसिद्धसेन-दिवाकरस्यातिप्रभावकस्य । श्रीसम्मतिग्रन्थकृतिः क सूक्ष्म-बुद्धयैकगम्या परवाद्यदूष्या ॥४॥
"Aho Shrutgyanam"