________________
११२ वयतुं समर्थोऽसमर्थोऽपि, त्वद्गुणस्तुतिः श्रुतधरकर्तृका भवति न भवति चेत्येवं स्यादादएवात्रापि पदं निधत्ते तेन श्रुतधरेणापि वक्तुमशक्यास्त्वद्गुणा इति भावः। उक्ताभिप्रायानुसन्धानेनाह-अमेयोऽवाच्यो वेति । यदि ते तव, गुणगणगतः गुणगणे वर्तमानः, गुणः पुरुषोत्तमभवदाश्रितत्वनिबन्धनो गुणविशेषः, अमेयो मातुमशक्यः, एतावानस्य महिमेत्यादिरूपेण परिच्छेत्तुमशक्य इति यावत्, वा अथवा परिच्छेदातीतत्वात् अवाच्यः सकलवचनाविषयः, केनापि वचनेन निर्दष्टुं न शक्य इति यावत् , अत एव विशिष्यानाख्येयः स्वासा. धारणरूपेणारख्यातुमशक्यः, अस्ति कश्चिद्गुणविशेषोऽमेयोऽनिर्वचनीय इति सामान्यतः प्रदिपादयितुं शक्य एव, तदा गुणगणगतगुणविशेषेण निर्वचनीयेन स्तोतुमशक्यतादशायामपि च पुनः गुणिगुणनमस्योऽसि गुणिनां गुणवतां पुरुषाणां ये लोकप्रसिद्धा गुणास्तैः स्वगतः नमस्कारार्होऽसीत्यर्थः ॥ ६ ॥
तत्किमहं गुणविशेषाकलितगुणगणयथावद्वर्णनद्वारा स्तुतिविषयो न भवाम्येव, नैवम् , यथा सर्वज्ञः स्वाऽसाधारणस्वरूपेण सर्वज्ञव्यतिरिक्तजनासंवेद्योऽपि स्वसंवेद्यः, ज्ञान पराप्रकाश्यमपि स्वप्रकाश्यम् , तथा त्वमपि परकर्तृकस्तुतिगोचरताऽतीतोऽपि स्वकर्तृकस्तुतिगोचरो भवसीत्याह-त्वमेवेति । हे गुरुवर ! धर्माद्युपदेशदानेन शिष्याणां परमपुरुषार्थमार्गसम्यग्ज्ञानादिनिदानानां श्रेष्ठ !, अथवा गुरोर्ब्रहस्पतेरपि वरेण्य ! स्वां स्वस्वरूपं, स्तोतुं स्तुतिकर्म कर्तु, त्वमेव नितरामतिशयेन, समर्थः शक्तिमान , असि भवसि । कथमन्यो मा स्तोतुमसमर्थः १ यत् यस्मात् ते तव, गुणग्रामः गुणसमूहः, इयता एतावन्यूनाधिकव्यवच्छिन्नप्रकारेण, परपरिच्छेद्यो न च, त्वद्भिन्नपुरुषपरिच्छेदगोचरो न भवति, स्वमतिगोचर यावत्प्रकारेण स्तुतिकरणेऽपि तदधिकप्रकाराणां वैशिष्टयाक्गमकुशलाना परित्यक्तत्वेन न्यूनोक्तिसद्भावात् , यावन्तो वैशिष्टयबुद्धथाधानपटवो गुणास्त्वयि समवेतास्ते नान्यत्र समवयन्तीति तावद्गुणवत्वलक्षणसाधारणधर्मेण त्वयि सादृश्य न कस्यापि, एकैकोऽपि गुणो विशिष्टस्त्वद्गतो नान्यत्रेति तेनापि सादृश्यं न त्वयि परस्येति नोपमयापि त्वद्वर्णनं परेण कर्तुं शक्यमित्याह-न सादृश्यमिति । जगति कस्यापि कृतिनः सादृश्यं त्वयि न पूर्णमित्यन्वयः, अर्थस्तु व्यक्त एव, अपूर्ण सादृश्यमुपादायोपमा तु न विच्छित्तिविशेषाधाने पटीयसीति न सा स्तुतिरित्यभिसन्धिः, महान्तः स्वमुखेन स्वगुणवर्णनामिका स्वस्तुतिं न कुर्वन्तीत्यभिसन्धाय यदि समर्थोऽपि त्वं स्वस्तुति न करोषि अन्यस्तु तथा कर्तुमविदग्ध एवेत्येवं स्तुतिगोचरत्वाभाववन्तमपि त्वामेतद्गुणवैशिष्टयमुपादाय सर्वातिशायिनं प्रणमाम इत्याह-नमाम इति, पूर्णामृतसुखमयमवरं पूर्ण स्वां नमाम इत्यन्वयः, कतिपयकालानन्तरमेवोत्तगुणसम्पन्नस्त्वं भविष्यसीति निर्णयवन्तो वयं प्रणमाम इत्यभिसन्धिः। अक्षरार्थस्तु व्यक्त एव, अवरमित्यत्र न वरो विद्यते यस्मादितिं विग्रह इति ॥७॥
"Aho Shrutgyanam"