________________
कीर्तिप्रतापादिगुणगणैकान्तावासो भवान् गुणिगणेन नमस्करणीय इत्याह-गुगौधैरिति गुणोधैर्गुणसमूहैः, व्याप्ते सर्वतः परिवृते, परिमिते परिच्छिन्नप्रमाणे, ते हृदि तब हृदये, अमिता मातुमशक्या, कीतिर्यशः, अब्धीनां समुद्राणां, पारंगता चतुःसमुद्रानुल्लय देशान्तरं गता, चतुःसमुद्रपर्यन्तव्यापिनी तब कीर्तिः, तेऽपि च त्वहृदयध्यापिनोऽपि गुणास्तदनुगमनाः कीर्त्यनुगमनाः, कीर्त्या सह तव गुणा अपि समुद्रपारंगता इति यावत् , तैः सर्वैः स्वकीर्तित्वद्गुणैः समं, तव प्रतापः प्रकृष्टतेजा, जगदपि त्रिभुवनमपि, परिव्याप्य सर्वतो व्यापनं कृत्वा, गतश्च, एतावताऽभिव्याप्त पूर्वस्थानमपरित्यज्यैव गता न तु पूर्वदेशं विहायेति मूचितम् । अत एव हे गुरो! चित्रमाश्चर्य यथा स्यात्तथा चकितः किमन्योऽप्येवमीडशोऽभूदस्ति भावी वेत्येवं विचाराकलितचित्तोऽहं, तैः पूर्वोपदर्शितगुणकीर्त्यादिभिः, भृतं परिपूर्णम् , अपि, त्वां नमस्यामीति ॥ ५ ॥
सर्वानेकान्ततच्याभिज्ञ एव जिनोपदिष्टकालादिसचिवस्त्वद्गुणग्रामान वक्तुं समर्थों नान्य इत्याह-गुणानिति । हे गुरो ! तव गुणान् स वक्तुं वदितुं यथार्थतया प्रतिपादयितुमिति यावत् , शक्तः समर्थः, यः श्रुतधरः विशिष्टश्रुतधर इत्यर्थः, एवकारोऽत्र दृश्यः, यो हि यजानाति स एव तत्प्रतिपादयितुमीशः, ऋते विशिष्टश्रुतधरात्त्वद्गुणगणाभिज्ञो नास्त्येव । नन्विदानी विशिष्टश्रुतधरो नास्ति ततोऽज्ञाता गुणा न स्तवनाहीं इत्यत आह-यतः कालोऽनन्त इति यद्यप्यतीता विशिष्टश्रुतधरा नेदानी सन्ति, इदानीन्तनास्त्वस्मत्सदृशा न विशिष्टश्रुतधराः, भविष्यकाले तु भविष्यन्ति बहवः श्रुतधराः ये भवतो गुणान् स्वज्ञानविषयीकृतान्वक्तुं स्वकाले समर्था एव तथा भूतं भवन्तमनागतं च सर्वमतीता अपि श्रुतधरा ज्ञातुं प्रगल्भा एव, वस्तुत इदानीमपि श्रुतधरा क्षेत्रान्तरे विहरन्त्येव, अथवा ननु यदीया गुणा अनन्ता न विशिष्टश्रुतधरैरपि युगपदेव वक्तुं शक्या इत्यत आह-यत इति, यदि कालोऽनन्तो न भवेत् , न भवेयुः श्रुतधरैरपि तव गुणा अनन्ता वक्तुं योग्याः, यदा तु कालोऽप्यनन्तः तदुपलक्षिताः श्रुतधरा अप्यनन्ताः, तदा तव गुणाः श्रुतधरवचनगोचराः संभावयितुं शक्या इति भावः। ननु कालस्य क्षणस्वरूपस्यैकस्यानन्तत्वं नास्ति तत्प्रवाहस्थानन्तत्वेऽपि बौद्धमेव तस्यैकत्वं न वास्तविकं, वचनं च परार्थमेव भवति तत्र परो न श्रुतज्ञानी तस्य स्वयमेवास्मद्गुणगणशत्वेन तम्प्रत्यस्मद्गुणगनकथनस्य श्रुतज्ञानिकर्तृकस्यानुपयुक्तत्वात् , किन्त्वऽश्रुतज्ञानी, स चानन्तेनापि कालप्रवाहेण कल्पितेन श्रुनज्ञानिवचनादस्मद्गुणस्तोमं ज्ञातुं न समर्थ इत्यस्मद्गुणस्तवनं श्रुतज्ञानिकर्तृकतया सम्भावितमपि निष्प्रयोजनमेवेत्यत आह-जिनवचनगीश्चारुभजनेति, जिनवचनामिका वाणी समीचीनस्याद्वादस्वरूपे त्यर्थः, न खलु जिनमते किमप्येकान्तेनैकस्वरूपमेव वस्तु, तेनोक्तदिवा श्रुतपरोऽपि तव गुणाम्
"Aho Shrutgyanam"