SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ न भयं नस्य, अभिनवशिष्याभ्यां सुरासुराचार्याभ्यां सेविते ते चरणे तव पदकमले, नमनं प्रणामः, अस्तु भवत्वित्यर्थः ॥ २॥ शिवब्रह्मभ्यामपि त्वं विशिष्ट इति त्वां स्तौमीत्याहहर इति । तमोगुणयुक्तो महादेवः पराभिमतो महाप्रलये जगदेव संहरतीति हर इति गीयते । त्वं पुनः शिष्याणामन्तेवासिनां हृदयध्वान्तमात्मगतमनादिकालीनमज्ञानलक्षणान्धकारम् , अनिशं सर्वदा जिनोक्तमोक्षमार्गज्ञानदर्शनचारित्रलक्षणालौकिकालोकाविर्भावनेन हरसि विनाशयसीति हरः । ते तव, गहनं जिनोक्तागमार्थसङ्घटितम्रर्तिकत्वेन मन्दमत्यगम्यं विशिष्टसूक्ष्ममतिमात्रगम्यं, वचनम् , विरञ्च्युक्ति विरश्चिब्रह्मा, तस्योक्तिं वचनं पराभिमतदलक्षणागमं किन्नातिशेते अपि त्वतिशेत एव, ब्रह्मकृतिविशिष्टा च तव कृतिरित्याहमुकल्पव्याप्तवेति, तदीया ब्रह्मसम्बन्धिनी कृतिः वेदरचना ब्रह्मनिर्मितो वेद इति यावत्, ब्रह्मदिनं कल्प इत्युच्यते इति सुकल्पव्याप्तैव ब्रह्मैकदिवसमात्रस्थायिन्येव, दिवसान्तरे पुनरन्यैव वेदकृतिः, या या ब्रह्मणः कृतिः सा सर्वापि कल्पमात्रस्थायिन्येव, इयं प्रत्यक्षतोऽनुभूयमाना तच कृतिः परा उत्कृष्टा कल्पातीता । कल्पः कल्पना तमतीताऽतिकान्ता कथमियमित्थं साता यतः परैः कल्पनादक्षैरपि बाधितुं न शक्यते, एतस्मात्कारणात् हे गुरुवर ! ते तव, नमः त्वामुद्दिश्य नमस्कारः, सततं सर्वदाऽस्तु ॥३॥ पराभिमतो महेश एक गणेशपुत्रक एव, त्वं पुनरनेकगणेशपुत्रक इत्यादिहेतोरपि तत उत्कृष्टः स्तुत्यह इत्याह-गणेशा इति । ते तव शिष्याः पट्टधराः गणेशाः गणधराः, तस्य महेशस्य पत्नी पार्वती देहा(भूता, तव तु भारती सरस्वती वदनमपि मुखमप्यधिगता मुखद्वारा हृदयाश्रिता. अपिना शरीरे मुखरूपावयवस्य प्राधान्यमपि तदाश्रितस्य सर्वाश्रितत्वमिति भारतीस्वरूप एव त्वं संवृत्त इति प्रतिपादितं भवति । नयग्रामः नगमसइन्ग्रहादिसप्तविधनयसमुदायः, अनेकपथगः विभिन्नमार्गगामी, ते तव, अणौ सूक्ष्मे, तेनाणुपरिमाणस्य जैनमतेऽनभ्युपगमेऽपि न क्षतिः । अनन्तधर्मात्मके मनस्यपि कयाचिदपेक्षयाऽणुत्वं सम्भवत्यपि, मनसि अन्त करणे, रमते अपेक्षाभेदेन विरोधपरिहारलक्षणसुखमनुभवति, यत एव:परिहृतविरोधा नयास्तव हृदयङ्गतास्तत एव तव मतिगतं त्वज्ञानगतं, प्रमाणस्वातन्त्र्यं प्रत्यक्षपरोक्षभेदेन द्विविधस्य मतिश्रुतावधिमनःपर्यायकेवलज्ञानात्मकपञ्चविधज्ञानात्मकस्य प्रमाणस्य यत्स्वतन्त्रसिद्धस्वपरव्यवसायात्मकत्वलक्षणप्रामाण्योपेतत्वेनानन्तधर्मात्मकवस्त्ववगाहित्वलक्षणं स्वातन्त्र्य, विमलं परोक्तैकान्तदोषलक्षणमलरहितं, भाति प्रकाशते, नित्यं सर्वदा, अभीष्टालिकलितं पारमार्थिकेष्टसमष्टिविभूषितं, गुरुवरं त्वाम् , नमामः प्रणमामः ॥४॥ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy