________________
रक्षाप्रभृतिशत्रुहननाघशुभकर्मवानेव तथा अभवनः, भवनं गृहं न विद्यते यस्य सोऽभवनः अनागार त्वमसि, विष्णुस्तु लोकविशेषवैकुण्ठादिनिवासी गृहवानेय, अतः सर्वथा विष्णोरुत्व ष्टस्त्वमसि । नियतगृहनिवासित्वाभावात्सर्वगतज्ञानाविध्वम्भूतत्वेन सर्वगतं त्वां सुरालयगतमपि देवालयगतमपि । मदृदयगंमद्धृदयस्थितं, नमामः प्रणमामः ।
ननु व्यापकत्वेन भवद्धदयगतत्वं न भवत्कर्तृकप्रणतिकर्मत्वप्रयोजक, तथा सति पुरुषान्तराणामपि सर्वज्ञानां तत्त्वं स्यादिति चेत्, सत्यम् , अत एव स्वऽभ्यस्तवैशेषिकदर्शनगतसप्तपदार्थाध्यापनकर्तुंगुरोरुपदिष्टपदार्थस्मृतिविषयतया मद्रदयगतत्वं परमोपकारित्वेन प्रणतिप्रयोजकमित्यभिप्रायेण विशेषाधारत्वादित्यत्र विशेषपदार्थस्य सामान्यमिति सामान्यपदार्थस्य समवेता अपीत्येतद्घटकतया समवायपदार्थस्य गुणाधार इति गुणपदार्थस्य द्रव्यादिति द्रव्यपदार्थस्य सुकमति, कर्मयदार्थस्याभवन इत्यभावपदार्थस्य च सन्निवेशनेन तादृशसप्तपदार्थनिरूपणात्मकं वैशेषिकदर्शनं प्रथमस्तुतिपद्ये प्रकटितम् । एतत्सनिवेशस्य स्तुतावित्थमुपयोगः । अन्त्यो नित्यद्रव्यवृत्तिविशेषः परिकीर्तित इति वचनात्स्वतो व्यावृत्ता नित्यद्रव्याणां व्यावर्तकत्वानित्यद्रव्यवृत्तयो यावन्ति नित्यद्रव्याणि तावत्सल्यका विशेषाः, इति विशेषाधारत्वात् हे गुरो ! यदि त्वं पुरुषोत्तमः तदाऽन्येऽपि जीवाः पुरुषोत्तमाः स्युः। इतो महिम्नः एतादृशसादृश्यलक्षणमहत्त्वात्सामान्येन सममनुयोगित्वप्रतियोगित्वाऽन्यतरसम्बन्धेन समवायक्वलक्षणसमवेतत्त्वधर्मेण सादृश्यात्सुरा देवा अपि समवेताः सामान्य स्युः। यथा सुरास्तावन्मात्रेण सामान्य न, तथा भवानपि विशेषाधारत्वतोऽन्यनित्यद्रव्यसाधारणाम भवितुमहति पुरुषोत्तमः । गुणा रूपरसादयश्चतुर्विशतिविधा द्रव्येष्वेव वर्तन्त इति तदाधारस्त्वं कथं द्रव्यात्पृथक्, व्यभिन्नस्य गुणाधारत्वासम्भवात् । एवं कर्माऽपि पश्चविधं मूर्त्तद्रव्येष्वेव वर्तत इति सुकर्मा त्वं कथं द्रव्यात्पृथक्, भवनं भावोऽभवनोऽभावः, सोऽपि भावरूपस्त्वं कथमित्येवं विरोधोऽवभासत इति विरोधभासकतया वैशेषिकदर्शनमुपयुज्यते, तत्परिहारस्तु पूर्वमर्थभेदाश्रयणात्कृत इति विरोधाभासश्चमत्कृतिमादधातीति ॥१॥
सुराचार्यासुराचार्याभ्यां विशिष्टत्वादपि त्वं नमस्योऽसीत्याहगुरुरिति । हे गुरुवर ! त्वत्तो भीतो गुरुः बृहस्पतिः, देवसदनं स्वर्ग, गतः। तत्रापि स्वर्गेऽपि, गतं त्वां प्रथितं विशिष्टविद्यादिगुणयोगादिन्द्रप्रभृतिदेववरसम्माननासम्भावितम् , अवलोक्य दृष्ट्वा, अतिचकितः अतः परं किं करणीयमित्येवं कांदिशीको जातः, भीत्या स्वगै गतस्यापि भोतिस्समुपस्थितैवेति तत्त्राणोपाय एतस्य शिष्यभवनमेवेत्याकलय्येव किमु, तव स्वयं शिष्यो भूत्वा । कविं असुराचार्य शुक्रं, भीषयति, यत् यस्मात्कारणात् । ननु निश्चितम्, काव्योऽपि शुक्रोऽपि, त्वां श्रयति गुरुत्वेन त्वां स्वीकरोति, एवं सत्येव बृहस्पतितो
"Aho Shrutgyanam"