________________
१०८
न मरीणां त्वत्तोऽतिशयघटना काऽपि विमुखा,
सती त्वां ध्यायन्ती जगति सधवा मुक्तिसुभगा। वरेण्या वाणी ते निखिलमतगा मानमहिता,
हितार्था सैवैका स्तुतिरपि गुरो ते परिणता ॥ ८॥ इदं स्तोत्रं गुर्वष्टकमहितकर्माष्टकहरं,
पठेत्प्रातः सायं त्रिकरणपटुर्यों नियमतः । सरस्वत्या वासः स भवति सभायां सुमहितो,
न तस्याग्रे कोऽपि प्रभवति विपश्चिद्विवदितुम् ॥१॥ शुचिबिम्ब स्वच्छं हृदयभवने स्थाप्य च गुरोः,
पठेद्धीमान् भक्त्या सुसमयमभिव्याप्य परितः। इदं स्तोत्रं तस्यानधिगतिविहीनार्थप्रचुरा, नयग्रामालीढा प्रसरति सदा गीर्मितिचिता ॥ २ ॥
॥ इति गुर्वष्टकम् ॥
॥ श्रीगुर्वष्टकटिपणी ॥ विशेषाधारत्वादिति, विः पक्षी पक्षिजातीयो गरुडः। शेषः सहस्रफणः शेषनागः। तौ विशेषौ वाहनतया शय्यारूपतया आधारौ यस्य विष्णोः स विशेषाधारः, तस्य भावो विशेषाधारत्वं, तस्मात् । पुरुषेषु आत्मसु मध्ये उत्तमः उत्कृष्टो यथा विष्णुः पुरुषोत्तम इति गीयते तथा हे गुरो! त्वं विशेषाणां सर्वतन्त्रस्वतन्त्रत्वप्राचीनजैनतीर्थोद्धारकर्तृत्वादीनामन्यपुरुषव्यावृत्तानामाधारत्वात्पुरुषेष्वात्मसु मध्ये उत्तम उत्कृष्टोऽसि । ननु विष्णुरुपेन्द्रत्वात्सुरोऽहन्तु मनुष्य इति कथं पुरुषोत्तम इत्याकाक्षायामाह-इतो महिम्नः प्रत्यक्षतोऽनुभूयमानात्तत्तल्लोकपूजितपतिष्ठादिकार्यकरणजातभवन्माहात्म्यात् त्रिभुवनव्यापिनः । समवेताः तत्तल्लोकमभिव्याप्य स्थिताः । सुरा देवाः, अपि, किमुत उपेन्द्राख्य एको देवः सर्वे देवाः । लोके मनुजादिपञ्चगतिषु देवगतेः प्राधान्यम् । देवा अपि सामान्यं साधारणं भवदपेक्षयाऽल्पगुणयोगि, तदान्येषां कथैव केत्यपिना द्योत्यते । तथा च पुरुषोत्तमाद्विष्णोरपि सुरात्त्वमुत्सम इति । अन्योऽपि विशेषस्त्वयि समस्तीत्याह-गुणाधारो द्रव्यात्पृथगपि, द्रव्याल्लक्ष्मीस्वरूपात , पृथगपि विभिन्नोऽपि तत्स्वामित्वादिरहितोऽपि । गुणाधारः आत्मगुणानां सम्यगज्ञानदर्शनचारित्राणां भेदसहिष्ण्यभेदलक्षणाविष्वग्भावसम्बन्धेनाश्रयस्त्वमसि, विष्णुस्तु लक्ष्मीस्वामी भूत्वा तदासक्त एव मायिकगुणस्य सत्त्वाख्यस्याधारो न तु मोक्षमार्गस्य । तथा सुकर्मा द्रव्याद्भिन्नोऽपि त्वं शोभननिरनुबन्धकर्मशाली, असि, विष्णुस्तु नैवं शोभनकर्मशाली किन्तु
"Aho Shrutgyanam"