________________
१०७
॥ श्रीगुर्वष्टकम् ॥ विशेषाधारत्वावमसि पुरुषेषुत्तम इतो,
महिम्नः सामान्यं तव तु समवेता अपि सुराः। गुणाधारो द्रव्यात् पृथगपि सुकर्माऽस्यऽभवनः __नमामस्त्वां देवालयमपि गतं मद्धृदयगम् ॥१॥ गुरुस्त्वत्तो भीतो गुरुवर ! गतो देवसदनं,
गतं त्वा तत्रापि प्रथितमवलोक्यातिचकितः । स्वयं शिष्यो भूत्वा किमु तव कवि भीषयति यत् ,
ननु त्वां काव्योपि यति नमनं तेऽस्तु चरणे ॥२॥ हरस्त्वं शिष्याणां हरसि हृदयध्वान्तमनिशं,
चिरञ्च्युक्तिं किन्ते वचनमतिशेते न गहनम् । सुकल्पच्याप्दैव प्रभवति तदीया कृतिरियं,
परा कल्पातीता गुरुवर नमस्तेऽस्तु सततम् ॥३॥ गणेशास्ते शिष्या वदनमपि भारत्यधिगता,
नयग्रामोऽणौ ते मनसि रमतेऽनेकपथगः । प्रमाणस्वातन्त्र्यं तव मतिगतं भाति विमलम् ,
नमामस्त्वां नित्यं गुरुवरमभीष्टालिकलितम् ॥ ४ ॥ गुणौधैर्याप्त ते हृदि परिमिते कीर्तिरमिता,
गताऽब्धीनां पारं तदनुगमनास्तेऽपि च गुणाः। प्रतापस्तैः सर्वैर्जगदपि परित्याप्य च गतो,
गुरो चित्रं तैस्त्वां भृतमपि नमस्यामि चकितः ॥ ५ ॥ गुणान् वक्तुं शक्तस्स तव सुगुरो यश्रुतधरः,
पतः कालोऽनन्तो जिनवचनगीश्चारु भजना। अमेयोऽवाच्यो पा गुणगणगतस्ते यदि गुणो,
विशिष्याऽनाख्येयो गुणिगुणनमस्योऽसि च तदा ॥ ६ ॥ त्वमेव त्वां स्तोतुं गुरुवर समर्थोऽसि नितरां,
गुणग्रामो यत्ते न च परपरिच्छेद्य इयता । न सादृश्य पूर्ण त्वयि जगति कस्यापि कृतिनो,
नमामस्त्वां पूर्णामृतसुखमयं पूर्णमवरम् ॥ ७॥
"Aho Shrutgyanam"