________________
२१
सम्मति का , गा.. तया चानुमित्या घटत्ववद्घटविशेष्यकत्वे सति घटत्वप्रकारकत्वलक्षणप्रामाण्यप्रकारेणैव घटज्ञानं विषयीक्रियत इति सा प्रामाण्यमादायैव पर्यवस्यतीति स्वग्राहकेणैव प्रामाण्यग्रहः, येनैव प्राथमिकज्ञानग्रहस्तेनैव तद्गतज्ञानत्वधर्मवत्तनिष्ठप्रामाण्यस्यापि ग्रह इति यावत्, तत्र तदप्रामाण्यग्राहकयावज्ज्ञानग्राहकसामग्रीपदेन परामर्शघटितसामग्रीपरिग्रहे तजन्यानुमित्यात्मकज्ञानविषयत्वात्प्रामाण्यं स्वतो ग्राह्य सम्पद्यते, तत्रापि किं वीजमिति चेत् , उच्यते, धात्वर्थक्रियाजन्यफलशालित्वमेव कर्मत्वम् , तच्च घटं जानातीत्यादौ ज्ञानक्रियाकर्मत्वं घटे धात्वर्थज्ञानात्मकक्रियाजन्यज्ञाततालक्षणफलाभ्युपगममन्तरेण नोपपद्यत इत्येवमभ्युपगतज्ञाततालिङ्गेन ज्ञानं तद्गतप्रामाण्यवानुमीयते, यतो ज्ञानं क्रियात्मकम् , क्रिया च फलानुमेया, ज्ञानाख्यज्ञातृव्यापारमन्तरेण ज्ञातताख्यफलानिष्पनेरिति तदन्यथाऽनुपपत्या तदनुमानात् । तथा च येनानुमानेन ज्ञानमनुमीयते तेनैव ज्ञानत्ववत्तद्गतप्रामाण्यमपीति न परत: प्रामाण्यनिश्चयावकाशः, किन्तूक्तनीत्या तदप्रामाण्याऽग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वलक्षणस्वतस्त्वोपपत्तेस्वतः प्रामाण्यनिश्चय इति कुमारिलभमतमपि न युक्तियुक्तम् , लक्ष्यभेदेन लक्षणभेदात् 'चैत्र ओदनं पचति, काष्ठं छिनत्तीत्यादौ भवतूक्तलक्षणं कमेत्वम् , परन्तु धात्वर्थज्ञानस्थले तस्य सविषयकत्वेन विषयत्वलक्षणमेव कर्मत्वमित्येतावन्मात्रस्वीकारेण घटादौ कर्मत्वस्योपपन्नत्वात् ज्ञानविषयत्वातिरिक्तज्ञातताया प्रमाणाभावात् , अन्यथा अयं मया ज्ञात इत्यनुभववत् अयमिष्टः अनुमितोऽयमित्याधनुभवोऽपि भवतीति तद्भलादीष्टताऽनुमितताऽपि च पदार्थान्तरं भट्टैस्स्वीकृतं स्यात् । किश्च प्रामाण्यस्य स्वतो आहेऽनभ्यासदशोत्पन्नज्ञाने प्रामाण्यसंशयो न स्यात् , ज्ञानग्रहे तद्गतप्रामाण्यस्यापि निश्चयात् , तस्याऽनिश्चये वा न स्वतः प्रामाण्यग्रहः, ज्ञानाग्रहे च धर्मिज्ञानाभावात् प्रामाण्यसंशयोऽपि न स्यादिति । न चा ज्ञानमतीन्द्रियम्, न वा ज्ञानाख्यव्यापारोऽपि ज्ञातताख्यफलात्मकलिङ्गज्ञानेनानुमेयत्वादऽतीन्द्रियः, घटमिच्छा. मीतिवद् घटंजानामीति प्रत्यक्षस्य सर्वानुभवसिद्धत्वात् । घटत्वेन घटो ज्ञात इति प्रत्यक्षस्यापि घटत्वप्रकारकप्रत्यक्षविषयो घट इत्यर्थकत्वेनातिरिक्त ज्ञाततावगाहित्वाभावात् । किञ्च न हि क्रियास्वभावं ज्ञानम् , अपि तु फलस्वभावमेव, अपि च क्रियाऽपि प्रत्यक्षद्रव्यवर्तिनी प्रत्यक्षव, भाट्टानां मते प्रत्यक्षश्चात्मा, तकिमनेनापराद्धं, यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते, अधिकं ग्रन्थान्तरादवसेयम् । नन्वेवं तर्हि अयं घट इत्याकारकज्ञानोत्पत्तिद्वितीयक्षणे घटत्वेन घट जानामीत्याधनुव्यवसायस्समुत्पद्यते, तत्र च घटत्वनिष्ठविशेष्यतानिरूपितविशेष्यित्वावच्छेद्यघटत्वनिष्ठप्रकारतानिरूपितप्रकारिताप्रकारेण ज्ञानस्य मानम् , तदेव च प्रामाण्यग्रहप्रयोजकमित्युक्तानुव्यवसायेनैव ज्ञानस्येव तद्गतप्रामाण्यस्यापि ग्रह इति तदप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री व्यवसायात्ममनः संयोगादिरूपा तजन्यो ग्रहोऽनुव्यवसाया, तद्विषयत्वं प्रामाण्ये उपपद्यत इति तस्य स्वतो ग्राह्यत्वोपपत्तिस्स्यादेवेति
"Aho Shrutgyanam"