________________
९७
७ गीतार्थनिश्रितस्यागीतार्थस्य गुरुवारतन्त्र्यं फलतो ज्ञानदर्शनलक्षणमित्यत्र “गुरुवारतंतनाणं" इतिहरिभद्रसूरिवचनसंवादः, गीतार्थाऽनिश्रितस्य तस्य व्रताद्यनुष्ठानवैफल्यं, तत्र " गीयत्थो य विहारो" इत्याद्यागमः प्रमाणमिति दर्शितम् । उक्तगाथायाः तृतीयोऽर्थश्चतुर्थोऽर्थेश्च विस्तरेण प्रदर्शितः ।
३८९–५
८ तत्र द्रव्यसम्यक्त्वभावसम्यक्त्वयोस्स्वरूपं 'जिणवयणमेव ततं' इत्यागमवचनेनोक्तम् ।
३९० - ३
६८ - १ परस्परसापेक्षे एव ज्ञानक्रिये मोक्षानुकूलशक्तिमच्वेन मोक्षम्प्रति कारणं, न तु निरपेक्ष व इत्यर्थतया 'नाणं किरियारहिये' इत्यष्टषष्ठितमगाथाऽवतारिता । ३९०-८ २ तद्विवरण, क्रियारहितं ज्ञानं क्रियामात्रं चेत्येकान्तौ द्वावपि पक्षौ जन्ममरण - दुःखेभ्यो मा भैषीरिति दर्शयितुमसमर्थौ ।
३९०-१३
३ कस्तथा समर्थ इत्याशङ्कायां परस्परसापेक्षसमुदिततदुभयात्मकपक्ष एवेति प्रतिपादितं, 'हयं नाणं क्रियाहीणं' इति विशेषावश्यक नियुक्तिसंवादोऽत्र दर्शितः । ३९०-१९ ४ ज्ञानमात्रक्रियामात्रयोरीप्सितार्थप्रापकत्वप्रतिषेधसाधके अनुमाने दर्शिते । ३९०-२६ ५ सम्यग्ज्ञानसम्यक्क्रियोभयवतः पुंसः भयमुक्तत्वसाधकमनुमानं, तत्र “संजोग- सिद्धीए फलं" इति विशेषावश्यक निर्युक्तिवचनं प्रमाणम्, तत्संवादकं 'चक्षुष्मानेकः' इति वचनञ्च सम्यविक्रयासम्यग्ज्ञानोभयस्येष्टफलसिद्धिजन - कत्वसाधकमनुमानञ्च दर्शितम् ।
३९०-२९
६ उक्तदिशा प्रतिपादितस्य ज्ञानक्रियाभ्यां मोक्ष इत्यस्य 'नाणं पयासय सोहओ' इति विशेषावश्यक निर्युक्तत्या प्रतिपादितेन ज्ञानतपः संयमेभ्यो मोक्ष इत्यनेन विरोध इति प्रश्नस्य प्रतिविधानम् ।
३९१-९
७ तत्र तपः संयमयोः क्रियायामन्तर्भावे 'संजमतवोभई जं' इति वचनसंवादः । ३९१-१६ ८ ज्ञानग्रहणतः सम्यग्दर्शनस्याक्षेपेण 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति तत्वार्थाधिगमसूत्रेणापि न विरोध इत्यतिदिष्टम् ।
९ यद्वा मतिज्ञानस्य रुचिरूपोऽपायांश एव सम्यग्दर्शनमिति तस्य ज्ञानरूपत्वादेव न विरोधः, गोवृषन्यायेन सूत्रे पृथग् निर्देशः, त्रयाणां च मोक्षानुकूलैकशक्तिमत्वावच्छिन्नकारणत्वस्वरूपं मोक्षमार्गत्वं सूत्राभिप्रेतमिति ।
१० सम्यग्दर्शनादित्रयस्य ज्ञानक्रियोभयस्य वा केन रूपेण कारणत्वमिति प्रश्नस्य प्रतिविधानम् ।
૧૩
" Aho Shrutgyanam"
३९१-१८
३९१-२२
३९१-२४