________________
५ न सुत्मेत्तेणेत्यवतार्य व्याख्यातम् , सूत्रमात्रेणावाधितार्थप्रतिपत्तिर्नेति । ३८५-२८ ६ "अत्थगई" इत्याद्युत्तरार्धमवतार्य व्याख्यातं, नयवादगहनलीनेत्यस्योपपत्तये 'नत्थि नएण विहूर्ण' इत्याद्युक्तिसट्टनम् ।
३८६-७ ६५-१ अधीतसूत्रेणार्थसम्पादने विधिनाऽधिकतरोयत्नो विधेयः, अन्यथा शासनमालिन्यकारित्वं
स्यादित्याशयतया "तम्हा अहिगयसुत्तेण” इति पञ्चषष्ठितमगाथाऽवतारिता ॥३८६-११ .२ तद्विवरण, तत्र सूत्रादर्थो बलीयानिति हेतोः अधिगतसूत्रेण अर्थविषयकप्रमा
णतत्तन्नयस्वरूपावधारणे दृढयत्नेन भाव्यं यस्मादाचार्यधीरहस्ता आप्तशासनं
विडम्पयन्तीति ज्ञायतामित्यर्थों व्यक्तीकृतः । ६६-१ अनिश्चितशास्त्रार्थस्य बहुश्रुतत्वादिदात् सूत्रतात्पर्यानवबोधाच्च सिद्धान्त
प्रत्यनीकत्वमित्यर्थकतया "जह जह बहुस्सुओ" इति षट्षष्ठितमगाथाऽवतारिता । ३८६-३० २ तद्विवरणम्, तत्र श्रुतपल्लवग्राहितया यथा यथा बहुश्रुतत्वख्यातिमान् मन्दमतिप्रभृतीनां
शास्त्रज्ञत्वेन सम्मतःशास्त्रतत्त्वानभिज्ञैर्विनेयवृन्दैः परिवृतश्च समयेऽविनिश्चितार्थः
अविनिश्चितागमैदम्पर्यश्च तथा तथा सिद्धान्तविनाशको भवतीति । ३८७-३ ३ अत्र "सव्वष्णूहि पणीय" इति सिद्धान्तगाथाद्वयं तदर्थश्च संवादक उपदर्शितः। ३८७-१२ ६७-१ "चरणकरणप्पहाणा" इति षष्ठितमगाथाया अवतरणद्वयम् , शास्त्रमधीत्य तदर्थाऽवधारणम् ,
अवधृतस्यार्थस्य प्रमाणनयाभिप्रायतः परिभावनीयत्वमिति, म्याद्वाद एव प्रवचनसारः एतस्मिन्नविज्ञाते चरणकरणानुष्ठानस्य निश्चयशुद्धः सारोऽविज्ञातः स्यादिति च क्रमेण दर्शितम् ।
३८७-२२ २ तद्विवरणं, तत्र चरणं 'वयसमणधम्म' इत्यादिगाथोक्तसप्ततिभेदम्, 'करणं पिंडक्सिोही समिई' इत्यादिगाथोक्तसप्ततिभेदम्, नदुभयानुष्ठानप्रवृत्येकलीनाः स्वसमयपरसमयमुक्तव्यापाराः चरणकरणस्य सारं निश्चयशुद्धं न जानन्तीत्येकोऽर्थः संक्षिप्तो दर्शितः।
३८८-३ ३ उक्तगाथाविस्तृतार्थः, स्वसमयत्वे परसमयत्वे च हेतूपदर्शनेन अयं स्वसमयः अयन
परसमय इत्येतस्मिन् परिज्ञाने मुक्तव्यापारा इत्यस्यार्थ उक्तः । ३८८-१३ ४ चरणकरणयोस्सारं निश्चयशुद्धं न जानन्तीत्यस्यार्थद्वयमुपदर्योपपादितम् । ३८८-१९ ५ 'मण्णइ तमेव सच्चं' इत्यागमाद् यदहद्भिरुक्तं तदेव सत्यमित्येतावर्तव सम्यग्दर्शनसद्भाव इत्याशङ्कय परिहृतम् ।।
३८८-२५ ६ अत्रागमविरोधाशकोत्थाप्यापाकृता, तत्र ये यथोदितचरणकरणप्ररूपणासेवन
द्वारेण प्रधानादाचार्यात्स्वसमयपरसमयमुक्तव्यापारा न भवन्ति ते चरणकरण। सारं निश्चयशुद्धं जानन्त्येवेत्यर्थः, तत्र "तं सव्वणयविसुद्धं" इत्यागमः प्रमाणम् । ३८८-२९
"Aho Shrutgyanam"