________________
९५
अविदितसूत्रान्तर्गतपरमरहस्यभूतभावार्थाः तत्तन्नयाधीनसप्तभयादिसङ्घटितयथार्थ सूत्रार्थ विवेचनतत्परबुद्धिहीना इत्यर्थो दर्शितः । ६२-१ अन्यनयानपेक्षैकनयाश्रयेण सूत्राभिप्रायव्यावर्णनपराणां वादिनां दूषणोपदशेकतया 'सम्मणमिणमो' इति द्विषष्ठितमगाथाऽवतारिता । २ तद्विवरणं, तत्र सकलधर्मप्रतिपादकत्वलक्षणसकलधर्मपरिसमाप्तत्ववत्स्यात्पदघटितवचनप्रवर्तकत्वेन सकलधर्मपरिसमाप्तवचनीयं सम्यग्दर्शनं निर्दोषमित्यर्थः । ३८३-२० ३ अनभिलाप्यधर्मप्रतिपादकत्वप्रसङ्गभीत्या स्यात्पदघटितवचनस्य सकलधर्मप्रति
३८३-१७
३८२-२६
पादकत्वं न सम्भवतीति प्रश्नस्य प्रतिविधानस् ।
३८३-२७
४ उक्तसम्यग्दर्शनमात्मोत्कर्षविनष्टाः, श्लाघमाना विनाशयन्ति, अस्य भावश्चोपदर्शितः । ३८४-३ ६३ - १ शासनभक्तास्ते सम्यग्दर्शनं कथं विनाशयन्तीत्याशङ्कानिवृत्यर्थक तथा 'नहु सासणभत्ती' इति त्रिषष्ठितमगाथाऽवतारिता ।
३८४-९
२ तद्विवरणम्, न खलु शासनभक्तिमात्रेण स्याद्वाद सिद्धान्तज्ञाता भवति, न च स्याद्वादसिद्धान्ताभिहितयथावस्थितवस्तुतश्वज्ञानमन्तरेण भावसम्यक्त्वं यच्चास्मादृशां श्रद्धानुसारिणां सम्यक्त्वं तत् 'सत्संख्यादि इत्यादि ज्ञानविन्दुवचनात् तदेव सत्यमित्यादिज्ञानाहितवासनारूपं द्रव्यसम्यक्त्वमेवेति ज्ञातव्यम् । ३८४-१३ ३ न जीवादितच्चैकदेशज्ञाताऽपि नियमात् अनेकान्तात्मकवस्तुस्वरूपयथार्थमरूपणायां निश्चितो भवति, तत्र हेतुरुपदर्शितः ।
३८४-२३
६४ - १ 'अल्पाक्षरमसंदिग्धम्' इत्यादिवचनोक्तलक्षणं सूत्रं महापुरुषप्रणीतं गम्भीरार्थं, तन्मात्रं न विशिष्टार्थबोधक्षमं, किन्तु व्याख्यानविशेषद्वारेत्येतत्प्रतिपादनार्थतया 'सुतं अत्थनिमेणं' इति चतुःषष्ठितमगाथाऽवतारिता ।
३८५-३
२ तद्विवरण, तत्र सूत्रार्थयोर्निर्वचनं, सूत्रिताक्षिप्तभेदेनार्थस्य द्वैविध्यं तस्य स्थानं अनन्तार्थभृतं सूत्रं, निर्युक्त्यादिनिरपेक्षेण तन्मात्रेणार्थप्रतिपत्तिर्न सम्भवति, 'मूअं केवलसुतं' इत्याद्युपदेशरहस्यवचनात्केवलसूत्रस्य मूकत्वमर्थस्य प्रकटजिह्वात्वमुपदर्शितम् । ३८५–९ ३ पयवक्केत्याद्युपदेश पदवचनादर्थस्य पदार्थ वाक्यार्थ- महावाक्याथैदम्पर्यार्थभेदेन चतुर्विधत्वं, प्रत्येकं तेषां चतुर्णा स्वरूपलक्षणमुपदर्शितम् ।
" Aho Shrutgyanam"
३८५-१७
४ प्रतिसूत्रमुक्तक्रमेण व्याख्याने निश्चितप्रामाण्यकं सम्यग्ज्ञानं तच वाक्यार्थादिज्ञानं मतिरूपं श्रुतज्ञानाभ्यन्तरं श्रुतवृद्धसम्मतं, तत एव समानाक्षरलाभानां चतुर्दशपूर्वविदामपि क्षयोपशमवैचित्र्याद्विचित्रमतिविशेषैः षट्स्थानपतितत्त्वं श्रूयते, तत्र " अक्वरलं मेण" इत्यादि विशेषावश्यकभाष्यसंवादः ।
३८५-२३