________________
६९-१ पदार्थरत्नरत्नाकरस्य कृताविकलपदार्थप्रकाशस्यानभिभवनीयस्य जिनवचनस्य
स्तुतिरूपामन्तिममङ्गलात्मिकां प्रकरणपरिसमाप्तावन्तिमगार्थी श्रीसिद्धसेनदिवाकर
सरिरक्तवानित्येवं रूपा भई मिच्छादसण' इत्येकोनसप्ततितमगाथाऽवतारिता । ३९२-४ २ उक्तगाथाविवरणं, तत्र जिनवचनस्य कल्याणप्रार्थना, जिनवचनस्य निर्वचनं, तदुक्तिप्रयोजनं, तद्विशेषणस्य मिथ्यादर्शनसमूहमयस्ये त्यस्य निर्वचनं, तत्प्रयोजनश्चोपदर्शितम् ।
३९२-११ ३ मिथ्यादर्शनानां प्रत्येकावस्थायां मिथ्यादृष्टित्वात्तत्समूहेऽपि महामिथ्यादृष्टि
त्वप्रसत्या तन्मयं जिनवचनं कथं सम्यग्भावं प्रपद्यत इति प्रश्नस्य प्रतिविधानम् । ३९२-२७ ४ जिनवचनस्य मिथ्यादर्शनसमूहमयत्वादेव तस्य समुद्ररूपस्य वेदान्तादिप्रकृतिभूताः
प्रत्येकनयास्तरङ्गाः, तन्मयश्च जिनवचनसमुद्रोऽमलं रत्नत्रयं प्रसूत इति तदर्थिनस्तत्कर्तारं भवन्तं जिनमाश्रयन्ते, अत्र 'नयास्तव स्यात्पदलाञ्छना इमे' इति दिवाकरवचनं संवादकम् ।
३९३-६ ५ अमयसारस्सेत्यस्य अमयसायस्सेति पाठान्तरस्य च भगवत इति विशेषणस्य च
संविग्नसुखाधिगम्यस्येत्यस्य च निर्वचनं, तत्प्रयोजनञ्च दर्शितम् । ३९३-१२ ६ इयं च जिनवचनकल्याणप्रार्थना प्रकरणपरिसमाप्तावन्तिममङ्गलात्मिका स्तुतिरिति निगमनम् ।
३९३-२९ ७०-१ दर्शनाद्यष्टसरिनामगर्भस्वगुरुनेमिसूरीश्वरस्तुतिरूपान्तिममङ्गलरूपं पद्यद्वयम् । ३९४-३
२ तृतीयपद्ये नव्योक्तिमेरुमन्थनेनागमाब्धिसमुत्थसुनयामृतपानं बुधस्याशंसनम् । ३९४-७ ३ चतुर्थपद्ये लघुवृत्तिपूर्तिकरणस्थानसंवत्सरमासदिनाद्यावेदनम् । ३९४-९ ४ तार्किकशिरोमणि-श्रीसिद्धसेनदिवाकरप्रणीतसम्मतितर्कप्रकरणस्य
विशिष्टानेकविरुदसमलङ्कृत-श्रीविजयनेमिसूरीश्वर-पट्टाब्धिचन्द्र-न्यायवाचस्पति-शास्त्रविशारद-विजयदर्शनमूरि-विरचितायाः सम्मतितर्कमहार्णवावतारिकाख्यसम्मतितर्कलघुटीकायास्समाप्तेसंसूचनम् । ३९४-११ ५ एकोनचत्वारिंशत्संख्यकानि प्रशस्तिपद्यानि।
३९५-२ ॥ इति श्रीसम्मतितर्कमहार्णवावतारिकाविषयानुक्रमणिका समाप्ता॥
"Aho Shrutgyanam"