________________
९१
४ तत्पुत्रत्वतौ श्यामत्वस्यानोपाधिकसम्बन्धो व्याप्तिर्नास्ति, शाकपाकजत्वस्योपाधित्वादित्यगमकत्वमिति पञ्चरूपवादिनो नैयायिकस्य मतमाशङ्कय प्रतिक्षिप्तम निश्रितान्यथानुपपन्नत्वस्यैव हेतुलक्षणत्वपर्यवसानेन ।
५ रुपत्रयवादिनो बौद्धस्य मतखण्डनमतिदिष्टम्, तथा च बौद्धनैयायिकवैशेषिकाभिमतहेतुमात्रेषु लक्ष्येषु अनुगतत्वात्तत्तद्वाद्यभिमत हेत्वाभासेष्वलक्ष्येषु व्यावर्त - मानत्वा निश्चितान्यथानुपपन्नत्वं हेतुलक्षणं, न तु त्रिरूपम्, तस्याऽसिद्धत्वविरुद्धत्वव्यभिचारित्वव्यवच्छेदकत्वेनावश्यकत्वेऽपि नियमेनानुमित्यनुपयुक्तत्वात् । ३६५०३ ६ नियमेन पक्षधर्मत्वं साध्यगमताङ्गं नेत्युपसंहृतम्, तत्र 'पित्रोश्च ब्राह्मणत्वेन"
३६४-२५
इत्यादिपद्वयं भट्टस्य संवादकमुक्तम् ।
३६६-११
७ पक्ष सत्त्ववत् सपक्षसचं विपक्षासत्वं च साध्यगमकतानङ्गमिति दर्शितम् । ३६६-३० ८ बौद्धाभिमतपक्षसच्चादित्रिरूपसद्भावेऽपि बाधितहेतोः सत्प्रतिपक्षितहेतोश्च न गमकत्वमित्यबाधितत्वासत्प्रतिपक्षत्वे अपि गमकता इति पञ्चरूपोपपन्नं लिङ्गं, तत्र 'पञ्चलक्षण काल्लिङ्गात्' इति जयन्तपद्यसंवाद इति नैयायिकप्रश्नः । ३६७–८ ९ उक्तप्रश्नप्रतिविधानं, त्रैरूप्यवत्पञ्चरूपत्वस्याऽपि हेत्वाभासे सम्भवोपपादनेनातिव्याप्यागमकत्वं व्यवस्थापितम् ।
३६७-२५
१० अबाधितत्वासत्प्रतिपक्षित्वरूपद्वयं शङ्कासमाधानाभ्यां निराकृतमिति तद्घटितपञ्चरूपं न युक्तं, किन्तु निश्चितान्यथानुपपन्नत्वमात्रमेकरूपमिति निगमितम्, तत्र 'अन्यथाऽनुपपन्नत्वम्' इति पद्यसंवादः, तद्रूपवान् हेतु:, तदन्यो हेत्वाभास इति दर्शितम् ।
११ नैयायिकाभिमतं दुष्टहेतुलक्षणं, दोपसामान्यलक्षणञ्चोपदर्शितम् । १२ जैनमते सद्धेतुभिन्नहेतुत्वमेव दुष्टहेतुलक्षणं, तत्र जैनतर्कपरिभाषा संवादः, तस्यासिद्धविरुद्धानैकान्तिकत्रयो भेदाः प्रत्येकं सलक्षणाः, अवान्तरभेदाच भाविताः । ३६९-१६ १३ जैनं प्रति अचेतनास्तरवः विज्ञानेन्द्रियायुर्निरोधलक्षण मरणरहितत्वादिति बौद्धानु
माने 'से बेमि sift' इत्याद्यागमवचनेन हेतोः प्रतिवाद्यऽसिद्धत्वमुपदर्शितम् ॥ ३६९-२५ १४ वैशेषिकादिकं प्रत्यपि बौद्धोक्तानुमाने प्रतिवादिनो वैशेषिकादेस्तरुणां विज्ञानेन्द्रियायुर्निरोधलक्षण मरणस्य भोगाधिष्ठानशरीरचत्वेन "नर्मदातीरसम्भूताः " इत्यादि ' श्मशाने जायते वृक्षः' इत्याद्यागमेन चाभ्युपगतत्वेन हेतोर सिद्धतैवेति प्रतिवाद्यऽसिद्धो हेतुः ।
१५ जैनं प्रति सुखादयोऽचेतना उत्पत्तिमत्त्वादित्यनुमानं साख्यः करोति तदा वाद्येऽसिद्धो हेतुः ।
"Aho Shrutgyanam"
३६९--४
३६९---८
३७०-३
३७०-१२