________________
८९
४ अस्त्यात्मा नित्यः, किन्तु पुष्करपलाशवनिर्लेपः, पुरुषः भोक्ता, न कर्ता, प्रकृतिरेव कर्त्री, तत्र साङ्ख्यतत्वकौमुदीवचनसंवादतो न करोत्यात्मेति साङ्ख्यमतं दर्शितम् ।
५ अन्तःकरणावच्छिन्न चैतन्यं जीवः, तस्य चौपचारिकमेव भोक्तृत्वं न पारमाकिमिति नात्मा वेदयते इति वेदान्तिमतम् ।
६ यद्वा क्षणिकत्वाच्चित्तसन्ततेर्येन कर्म कृतं नासौ तद्वेदयते इति बौद्धमतमाश्रित्य नवेदयत इति, अत्र बौद्धमते यथा न वेदयते इति न सम्भवति यथा च सम्भवति तत्क्रमेणोपदर्शितम् । ३५४-१९
57
७ रागादीनामत्यन्तक्षयो न केनापि कर्तुं शक्य इति नास्ति सर्वज्ञः, तत्र "यत्राप्यतिशयो दृष्टः इति भाट्टपद्यद्वयं संवादकमुपन्यस्य सर्वज्ञाभावात् यावज्जीवमग्निहोत्रादिकर्मोपदेशान्मोक्षसाधकक्रियानुष्ठानकालानुपदर्शनात्सर्वज्ञानभ्युपगन्तृणां यज्वनां मते नास्ति निर्वाणमिति मीमांसकमतम् ।
८ नियतिवादिमतं यथा स्वभावत एव मोक्षो भवति, न मोक्षोपायः कश्चिदिति स्वभाववादिमतम् ।
३५४-११
१२ वनस्पत्यादावात्मसिध्ध्युपदर्शनम्, तत्र प्रामाण्यनिर्णायकं 'से बेमि इपि इत्यादिवचनं ।
३५४-१६
३५५–१
९ एतानि षडपि मिथ्यात्वस्य स्थानानि, तैराभिग्रहिक मिथ्यात्वं चार्वाकादीनां षण्णां ।
३५५-११
३५५-१४
३५५-१७
१० तत्र चार्वाकमतखण्डनम्, शरीरातिरिक्तात्मव्यवस्थापनेन ।
११ आत्मनोऽनादित्वं कर्म कर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वं तेन कर्मजीवसम्बन्धस्यानादित्वेन तज्जन्यसंसारस्याप्यनादित्वं, तत्र 'पुवि भंते' इत्यादि भगवती वचनसंवादः ।
" Aho Shrutgyanam"
३५५-२५
३५६–४
१३ इन्द्रियाद्यधिष्ठातृत्वेनात्मसिद्धिरावेदिता, अरूपित्वादात्मा बाह्येन्द्रियैनोंपलभ्यते, न त्वभावात्, मानसप्रत्यक्षेण तूपलभ्यत एवेति दर्शितम् । १४ बौद्धमतमाश्रित्योक्तस्यात्मा न नित्य इत्यस्य खण्डनमतिदिष्टम् ।
१५ प्रत्यभिज्ञाप्रमाणेन स्थिरात्मसिद्धिः प्रपञ्चिता, स्थैर्याभावे प्रत्यभिज्ञानोपपादनं
३५६-२२
३५७-२
प्रतिक्षिप्तम् ।
३५७-१५
१६ ' इत एकनवते कल्पे' इत्यादि बौद्धागमोऽपि नित्यात्मप्रतिपादक इति दर्शितम् । ३५८-५ १७ साद्धूख्यमतमाश्रित्योक्तस्य न करोत्यात्मेत्यस्य खण्डनमतिदिष्टम् ।
३५८-११
૧૨