________________
८७ क्वचिद्भङ्गद्वयमात्रप्रतिपादनं स्याद्वादव्युत्पन्नापेक्षया, स्याद्वादाव्युत्पन्नश्रोतन प्रति तु सप्तविधभङ्गमतिपादनमावश्यकमेव ।
३४५-१५ ६ सप्तभङ्गात्मकमहावाक्यसम्भवप्रतिपादनम् , सप्तभङ्गीप्ररूपणायाः स्वसमयार्थ
प्रज्ञापनात्वसाधकमनुमान, एकान्तभिन्नसामान्यविशेषप्रतिपादकवैशेषिकदर्शनस्य मिथ्यात्वमिति ।
३४५-२९ ७ एतत्प्रकरणकर्तृमते वैशेषिकदर्शनस्य सङ्ग्रहव्यवहारप्रकृतिकत्वे नैगमनयो
न कस्यापि दर्शनस्य प्रवर्तक इति भावितम् , तत्र "हेतुर्मतस्य कस्यापि” इति नयोपदेशवचनं संवादितया प्रोक्तम् ।
३४६-८ ८ देवसूर्याधाचार्यमते नैगमनयप्रकृतिकं वैशेषिकदर्शनम्, तत्र “दर्शितेयं यथा
शास्त्रम्" इत्यनेकान्तव्यवस्थापद्यसंवादः, तत्समानतन्त्रनैयायिकदर्शनस्यापि नैगमनयमूलकत्वेन मिथ्यात्वम् ।
३४६-१५ ९ ब्रह्मैव सत् जगन्मिथ्येति ब्रह्माऽद्वैतवादात्मकस्य वेदान्तदर्शनस्य तथा 'अनादिनिधनं ब्रह्म' इति पद्योक्तस्य भर्तृहरिमतस्य शब्दब्रह्माद्वैतवादस्य सङ्ग्रहनयमूलकत्वेन
एवं मीमांसकमतस्य च व्यवहारनयप्रसूतत्वेनैकान्तनयावलम्बित्वान्मिथ्यात्वम् । ३४६-२६ १० अनेकान्तवादिनामिवैकान्तवादिनामऽपि समानस्य घटादिज्ञानस्य मिथ्यात्वे किं वीजमिति प्रश्नप्रतिविधानम् ।
३४७-२२ ११ मिथ्यादृष्टेर्घटे घट एवायमिति ज्ञानस्य व्यवहारदृष्टया प्रामाण्येऽपि निश्चयदृष्टया
न प्रामाण्य, किन्त्वज्ञानत्वमेव, अत एव भवबीजं तत् , स्यावादिनां तु तज्ज्ञानं सम्यग्ज्ञानमित्यादि विचारितम् ।।
३४७-२४ ५०-१ अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वमेवेत्यर्थकतया 'जे संतवायदोसे' इति पञ्चाशत्तमगाथाऽवतारिता ।
३४८-१६ २ उक्तगाथाविवरणम् , एकान्तसद्वादपक्षे साङ्ख्यानां यान् दोषान् बुद्धकणभुकप्रणीतदर्शन
भक्ताः प्रतिपादयन्ति, साङ्खयाश्वासद्वादपक्षे ते सर्वेऽपि दोषाः सत्याः, अत एव तत्तच्छास्त्रं सर्व मिथ्येति ।।
३४८-१९ ३ स्वपक्षेतरपक्षे तत्तद्वादिभिमिथो भूरि दोषापादनेनाप्रामाण्यज्ञापनं कृतम् । ३४८-२६ ४ अन्योन्यमेकान्तवादियुक्तयो मिथ एकान्तवादिपक्ष प्रतिक्षिपन्ति, न त्वनेकान्तवादिपक्षमित्युपसंहृतम् ।
३५०-१ ५ जात्यन्तररूपेऽनेकान्ते प्रत्येकपक्षोक्तदोषाभावे "न नरः सिंहरूपत्वात्" इति पद्यं संवादकं, अईच्छास्त्रमेव दोषाऽसंस्पृष्टं सम्यग्भावं भजते, नान्यदिति । ३५०-८
"Aho Shrutgyanam"