________________
८१
कारणत्वाभ्युपगमेन वा निराकरणम् , तथाऽनभ्युपगमे त्रिप्रदेशिकस्कन्धादेकाणुभेदे द्विप्रदेशिकस्याकस्मिकत्वापत्तिः, परमाणुद्वयादिसंयोगाद् व्यणुकाद्युत्पत्तिकल्पने महागौरवश्च।
३१८-२३ ३ उक्तार्थे संयोगाच्च विभागाच्चेत्यादीनि दशपद्यानि संवादकानि, संयोगजैको
त्पादे विभागजानेकोत्पादे चानुभवसाक्षिको ब्यवहारः प्रमाणतयाऽऽवेदितः। ३१९-१ ४ "बहुआण एगसद्दे" इति गाथाविवरणं, तत्र बहूनां तथणुकादीनां संयोगैर्यथैकस्य व्यणुकादेरुत्पादो भवति अन्यथैकाभिधानाधनुत्पत्तिः, तथा विभक्तानां बहूनामवयवानामुत्पादः, अन्यथानेकाभिधानाद्यनुत्पत्तिरिति ।
३१९-२७ ५ मुद्रपाताद् घटो विनष्ट इत्येव प्रतीयते व्यवयिते चेत्यतिरिक्त विनाशस्यैव
सिद्धिरित्याशङ्काया निराकरणं विनाशस्योत्तरपर्यायरूपत्वव्यवस्थापनेन। ३२०-६ ६ अतिरिक्तविनाशाभावे "दृष्टस्तावदयं घटोत्र निपतन्” इति वचन पोद्वलकम् । ३२०-११ ७ ध्वंसस्योत्तरपर्यायस्वरूपत्वे साधनन्तत्वं न स्यादिति शङ्काप्रतिविधानम् । ३२०-१५ ८ मृद्रव्यं द्रव्यरूपेण ध्रुवं सत्तत्तत्पूर्वोत्तरपर्यायाभ्यां विनाशोत्पादात्मकमिति
तत्रयात्मकम् , यथा चोत्पादव्ययध्रौव्यस्वभावा द्रव्यातयाऽभिन्नाः पर्यायार्थतया च लक्षणभेदेन भिन्ना इत्येककालीनधर्मिरूपतया परस्परात्मकत्वेन · प्रत्येकमेकैकरूप व्यात्मक, तथैव कालत्रयापेक्षयाऽपि पूर्ववल्यात्मकमतोऽन‘न्तपर्यायात्मकमेकं द्रव्यमिति निगमितम् ।।
३२०-१८ ४१-१ अनन्तकाले स्वयमनन्ततां बिभ्राणा उत्पादादयो द्रव्ये कथञ्चित्स्वा
भिन्नेऽनन्ततामानयन्तु, एकक्षणे एकस्मिन्द्रव्येऽनन्तपर्यायत्वं कुत इत्याशङ्कायामेकक्षणेऽप्यनन्तोत्यादविगमस्थितीनां सम्भवोऽस्त्येवेत्युत्तरपरतया 'एगसमयम्मि' इति एकचत्वारिंशत्तमगाथाऽवतारिता ।
३२०-२८ २ उक्तगाथाविवरणं, तत्रैकस्मिन् क्षणे एकद्रव्यस्य बहव उत्पादाः तत्सम
संख्यका विनाशास्तरसमसंख्यकाः स्थितयश्च, तत्र शास्त्रवार्तासमुच्चयटीकावचनसंवादः, सामान्यरूपतया स्थितिरेकापि तत्तत्पर्यायोत्पादावच्छिन्ना । ३२१-२१ तत्तत्पर्यायविगमावच्छिन्ना च भिन्नैवेति दर्शितम् ।
३२१-५ ४२-१ एकक्षणावच्छिन्नसंयोगविभागजानन्तोत्पादादित्रिकैकस्वभाववस्तुनो दृष्टान्त
द्वारेण निश्चयार्थतया "काय-मण” इति द्विचत्वारिंशत्तमगाथाऽजतारिता । ३२१-२१ २ उक्तगाथाविवरण, तत्रैकदा प्रत्येकं कायमनोवचनादीनां विशिष्टोत्पादानुपदर्य : कायमनोवचनक्रियारूपादिगतिविशेषापेक्षया संयोगभेदापेक्षया च ज्ञानविषयत्वाघऽपेक्षया चैकस्यैव द्रव्यस्यानेकधोत्पत्तिभावादनन्तपर्यायात्मकत्वं निगमितम्।३२१-२५
"Aho Shrutgyanam"