________________
८०
३१६-२५
६ विचित्र परिणामाः पुद्गलाः, चाक्षुषप्रत्यक्षे नादरपरिणाम एव कारणम्, तत्राप्यनुवभूतरूपादिभावे न प्रत्यक्षमिति तत्प्रत्यक्षे उद्भूतरूपवत्त्वव्यवधानाभावा लोकादिकं चाक्षुषज्ञानावरणीयकर्मक्षयोपशमाधायकतया कारणं वाच्यमिति । ३१६-१५ ७ " जालान्तरस्य सूर्यांशौ" इति पद्योपवर्णितं नैयायिकाभिमतपरमाणुस्वरूपमपाकृतम्। ३१६-२० ८ जैनमते परमाणुर्न नित्य एव किन्तु विभक्तभावेनोत्पत्तिभावात्कथञ्चिन्नित्यानि - त्योभयरूप इत्यभिप्रायणात्तरार्द्धेन परमाणुरुत्पद्यत इति व्यावर्णितम् ९ पृथग्भावलक्षणभेदे सति विभागपर्यायरूपेण परमाणुत्पादे संवादकं 'भेदादणुः' इति तच्चार्थसूत्रम्, भेदादेव परमाणुरुत्पद्यते न सङ्घातादिति भाष्यसनाथम् । ३१७–३ १० परमाणून नित्यत्वान्नोत्पत्तिर्युक्तेति शङ्कानिराकरणम्, अत्र कार्यद्रव्यमागभावसयोनैकत्वमित्युपपत्तये प्रमाणनयतत्त्वालोकालङ्कारोक्तं सदृष्टान्ततदुभयलक्षणप्रतिपादकसूत्रचतुष्टयम्, मागभावध्वंसयोरैक्याभावे तदात्मकपरमाणूनामप्यैक्यं न संभवतीति द्रव्यार्थिकनया देशाद् द्रव्यस्वरूपतयाऽवस्थिता एव पर्यायनयादेशात्तत्कार्यभावेनोत्पद्यमानाः कथञ्चिद्भिन्नास्ते इति । ११ बादरपरिणामपरिणतमहाद्रव्वे परमाणुभावेन परमाणुनां नाशाभ्युपगमात् अवयवविभागोन्तरं परमाणुभावेन विभक्ततथा चोत्पादाभ्युपगमात् 'कारणमेव तदन्त्यं' इति पारमर्षोक्तिविरोध इति प्रश्नप्रतिविधानम्, तदुक्त्यभिप्रेतार्थीपदर्शनेन ।
३१७–५
"Aho Shrutgyanam"
३१७-२२
१२ व्यक्त्यात्मना परमाणो नित्यत्वव्यवस्थापनेन परमाणुर्नित्य इति व्यवहारस्य भ्रान्तत्वापत्तिरित्याऽऽशङ्काया निरसनम् ।
१३ एतेन परमाणवो नित्या एव कार्यरूपाश्च पृथिव्यादयश्वत्वारोऽनित्या एवेति नैयायिक प्रक्रियाया निरासः ।
३१८-१४
१४ परमाणोरपेक्षाभेदेन कारणत्वं कार्यत्वञ्चेत्यत्र द्वादशारनयचक्रटीकासम्मतिरावेदिता ।३१८-१६ ४० - १ 'बहुआण एगसदे' इति चत्वारिंशत्तमगाथावतरणं, तत्र पृथिव्यादिसमवायिकारणकार्यावच्छेदकजन्यपृथिवीत्वादिधर्मानाक्रान्तत्वात्परमाणूनामुत्पत्तिर्न सम्भवतीत्याशङ्कानिरासः, तादात्म्यसम्बन्धेन पृथिवीत्वाद्यवच्छिन्ने स्वभ्वंसत्वसम्बन्धेन पृथिवीत्वादिनोपादानकारणत्वव्यवस्थापनेन ।
२ संयोगेन विभागेन च कार्यद्रव्योत्पादाभ्युपगमे संयोगजकार्यद्रव्ये विभागस्य विभागजकार्यद्रव्ये संयोगस्य व्यभिचारशङ्कायाः कार्यद्रव्ये वैजात्याभ्युपगमेन कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वप्रवेशेन वोभयोरेकश क्तिमत्त्वेन
३१८-४
३१८-१९