________________
७९
५ उत्पद्यमानं किञ्चिदंशेनोत्पन्नमित्यस्य संवादकं 'चलमाणं चलिए ' इति भगवतीसुत्रवचनम् ।
६ उत्पद्यमानस्योत्पन्नत्वमुत्पत्स्यमानत्वं यथा तथोत्पन्नस्योत्पद्यमानत्वमुत्पत्स्यमानत्वश्च भावितम् तथोत्पत्स्यमानस्योत्पद्यमानत्वमुत्पन्नत्वञ्च दर्शितम् ।
३१३-१२
७ एवमेवोत्पन्नोत्पद्यमानोत्पत्स्यमानभेदाः प्रत्येकशो विगतादिभिः स्थितादिभि - व समभेदा ज्ञेयाः, एवं स्थितिविगमावपि ।
३१३-१७ ८ एतेषां भेदानां काल्पनिकत्वं न प्राज्ञैर्यथार्थतयैवाकलनादिति दर्शितम् । ३१३-१९ ९ अनेन प्रकारेण त्रिकालविषयं द्रव्यस्वरूपं प्रतिपादयद्वाक्यं प्रमाणमन्यथा त्वप्रमाणमिति निगमितम् ।
३१३-२९
३१४-८ :
१० अत्रैकाशीतिर्भङ्गाः, ते 'यद् गृह्यते तदिह वस्तु गृहीतभेव' इति श्लोकटीकायामेतटीकाकर्तृकर्तृकायां प्रदर्शिताः, विशेषजिज्ञासुभिस्ततो विज्ञेया इत्युपदेशः। ३१४-१ ३८ - १ अर्थान्तरगमनलक्षण विनाशविभाग जोत्पादयोरभावात्तन्नियतायाः स्थितेरप्यभावात्तत्रैकाल्यं न सम्भवतीति वादिनः मति तदभ्युपगम प्रदर्शनपूर्वकोपदेशपरतया "दव्वंतरसंयोगाहि" इत्यष्टत्रिंशत्तमगाथाऽवतारिता । २ उक्तगाथाविवरणं, तत्र 'संयोगानां द्रव्यम्' इति वैशेषिकसूत्रस्य बलाद्वैशेषिकादयो यथा द्रव्यान्तरसंयोगैः पटादिकार्यद्रव्यस्योत्पादं स्वीकुर्वन्ति तथा प्रदर्शकं पूर्वार्द्धम्, ते उत्पादार्थानभिज्ञा विभागजातमुत्पादं नेच्छन्तीत्यर्थः स्पष्टीकृतः । ३१४-१३ ३९ - १ कुतस्ते उत्पादार्थानभिज्ञा इत्याशङ्कासमाधानपरतया अणु दुअणुि इत्येकोनचत्वारिंशत्तमगाथाऽवतारिता ।
&
३१३–५
,
३१५–१
२ उक्तगाथाविवरणं, तत्र द्वाभ्यां परमाणुभ्यामारख्धे व्यणुकद्रव्ये अणुरिति व्यपदेशः परमाणुगत द्वित्वसंख्यातस्तत्राणुपरिमाणस्यैवोत्पादात्, त्रिभिद्वर्थणुकैरारब्धे द्रव्ये यणुकमिति व्यपदेशः, तत्र प्रत्यक्षानुरोधेन बहुत्वसंख्यातो महत्परिमाणस्योत्पादः, एतद्भावार्थ:, तत्र नैयायिकादिप्रक्रिया वर्णिता ।
३ कत्र्यणुकादिकार्यद्रव्यस्य तत्र परिमाणस्य चोत्पत्तिप्रक्रियां निरूपयन्तौ नैयायिकवैशेषिकौ स्वीयाज्ञतां व्यञ्जयतः यतः परमाण्वोः संयोगे सत्येव द्वयणुकमुपद्यते इति न, किन्त्वेकसामयिकाभ्यां संघात भेदाभ्यामप्युत्पद्यते, तथा भेदादपीति, अत्र जैनी प्रक्रिया दर्शिता ।
"Aho Shrutgyanam"
३१५-२५
३१६–६
४ उक्तार्थे 'सङ्घातभेदेभ्य उत्पद्यन्ते' इति तच्चार्थसंवादः ।
५ केचन बारस्कन्धाः प्रत्यक्षगोचरा भवन्तीत्यत्र 'भेदसङ्घाताभ्यां चाक्षुषाः" इति तत्वार्थसूत्रवृत्तिवचनमुपदर्शितम् ।
३१६-१२