________________
२४-१ तदुत्तरतया “दव्वत्थंतरभूतया" इति चतुर्विंशतितमगाथाऽवतारिता। २८८-२८ २ तद्विवरणम् , तत्र परमते द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्ती वेति विकल्प्य । उभयत्र दूषणमभिहितम् ।
२८९-१ २५-१ "सीसमई विष्फारणमेत्तत्थोऽयं" इति पञ्चविंशतितमगाथाऽवतरण, तत्र
पूर्वोपवर्णितं सर्व विवक्षामात्रेण जात्यन्तरात्मके वस्तुनि भेदाभेदाधन्यतरकथाया असम्भवादित्येकमवतरणम् ।।
२८९-११ २ आर्हतानामुत्सर्गतः स्याद्वादरूपसप्तभङ्ग्यात्मकप्रमाणवाक्यस्य तदेकवाक्यतापनतत्तन्नयवाक्यानां च यथार्थतत्त्वाधिगमकानामभिधानमुचितम्, न तु मिथ्या. रूपाणामसद्रपैकान्ततत्त्वप्रतिपादकानाम् , तथापि स्याद्वादव्युत्पत्त्याधानाय नयवादेष्वपि प्रवृत्तिरुचिता, असत्ये वर्मनि स्थित्वेति न्यायेन स्वरूपतोऽसत्यानामपि नयानां फलतः सत्यत्वादिति द्वितीयमवतरणम् ।
२८९-१३ ३ उक्तगाथाविवरणं, तत्र विनीतविनेयबुद्धिविकाशमात्रफलकोऽयं प्रबन्धः, अन्यथा स्याद्वादानात्मिका कथा स्वसिद्धान्ते नास्त्येव, अत एव "नैवावधारणी भाषा
भाषेत" इति सिद्धान्तोक्तं सङ्गतम् , अयं निषेधः स्वतन्त्रनयविषय एवेति दर्शितम्।२९०-३ २६-१ "ण वि अस्थि अण्णवाओ" इति षइविंशतितमगाथा यद्वस्तु यद्धर्मान्वितं
तथैव तत्प्रतिपादयन्तस्सम्यग्वादिनोऽन्यथा मिथ्यावादिन इत्यर्थकतयाज्ञतारिता । २९०-१७ २ उक्तगाथाविवरणं, तत्र जैनसिद्धान्ते गुणगुणिनोरेकान्तभेदवाद एकान्ताभेद
वादश्च नास्ति, तावेकान्तेन भिन्नावेव एकान्तेनाऽभिन्नावेवेति मन्यमाना वादिनो यथार्थतत्वं न जानन्तीत्यर्थों भावार्थश्च दर्शितः ।
२९०-२३ ३ सयुक्त्यैतावता प्रबन्धेनानेकान्तवाद एव सिद्धिकोटि नीत इति प्रतिज्ञाय __ तद्भावना, तत्रज्ञानात्मनोघंटरूपाद्योश्च एकान्तेन भेदस्याऽभेदस्य च खण्डनम् । २९१-३ ४ द्रव्यगुणयोर्भेदविशिष्टाभेदसाधकानुमानप्रदर्शनम् , तत्र साध्याप्रसिद्धिदोषापाकरणम्, कपिसंयोग्यभिन्ने वृक्षे कपिसंयोगभेदसाधनात् ।
२९१-२५ ५ भेदाभेदोभयस्य पक्षे सिद्धितो जात्यन्तरात्मकवस्तुसिद्धिः, तत्र 'स्याद्वादतस्तव __तु बाह्यमथान्तरङ्गम्' इति महावीरस्तववचनसंवादः ।
२९२-३ ६ परस्परविरहरूपत्वेन विरुद्धयोर्भेदाभेदयोनैकत्र समावेश इति तन्त्रान्तरी
याऽऽशङ्का तत्र हेत्वसिद्धिदृष्टान्ताऽसिद्धि स्वरूपासिद्धिशङ्कापरिहारः। २९२-८ ७ उहाऽऽशक्कानिरासः, परं प्रति विरोधाज्ञानसिद्धये विरोधलक्षणपृच्छा, तदुत्तरस्य विरोधलक्षणप्रतिपादनरूपस्य खण्डनम् ।
२९२-१७
"Aho Shrutgyanam"