________________
७२
२ उक्तगाथाविवरणं, तत्रैकमेव द्रव्यं यदि रसनासम्बन्धान्मधुरादिरसस्य नयनसम्बन्धाकृष्णादिरूपस्य च व्यपदेशभाक तर्हि रसतो द्विव्यादिगुणमधुरं यावदनन्तगुण
मधुरं रूपतो द्विव्यादिगुणकृष्णं यावदनन्तगुणकृष्णं तद्रव्यं कुतस्स्यादिति, पुरुषदृष्टान्तेऽपि • न त्वल्पको महान् वा भवति सम्बन्धतः पुरुषः, अस्य भावार्थ उपदर्शितः । २८६-२ २०-१ एकान्ताभेदवाद्याशङ्कारूपतया 'भष्णइ संबंधवसा' इति विंशतितमगाथामवतार्य तद्विवरणम् ।
२८६-१३ २ तत्र सम्बन्धसामान्यवशायदि सम्बन्धित्वसामान्यमनुमतं तव, तदा सम्बन्धविशेषद्वारेण संबन्धिविशेषोऽपि किं नाभ्युपगम्यत इति ।
२८६-१६ २१-१ तत्समाधानरूपतया 'जुज्जई संबंधवसा' इत्येकविंशतितमगाथामवतार्य तद्विवरणम् ,
तत्र स्याद्वादिमते सम्बन्धविशेषादिसद्भावात्सम्बन्धविशेषप्रयुक्तः सम्बन्धिविशेषो युक्तः, द्रव्यैकान्तवादिमते सम्बन्धिविशेषाभावान्न सम्बन्धविशेष इति तत्कृतः कुतो रूपादिविशेषपरिणाम इति ।
२८६-२१ २२-१ अनेकान्तकादिमतेऽपि रूपरसादेः षड्गुणहानिद्धयादिपरिणतिः कथमुपपन्नेति
पराशकोपदर्शनपूर्वकतादृशपरिणत्युपपादनपरतया " भण्णइ विसमपरिणय" इति द्वाविंशतितमगाथाऽवतारिता।
२८७-३ २ उक्तगाथाविवरणं, तत्र शीतोष्णस्पर्शवद्विरोधादाम्रफलादिकमेकदा द्विगुणाद्यनन्तगुण
वृद्धिहानिरूपविषमपरिणतिपरिणतं कयं भविष्यतीत्यत्र परनिमित्तं भवति वैषम्यं, न वा परनिमित्तमेव तदित्येकान्तोऽस्तीत्युपपादितम् ।
२८७-७ ३ गुणानां साश्रयत्वव्यवस्थापनेन निराधारगुणानुपपत्त्यैकान्तगुणाद्वैतवादनिरसनम् , तत्रान्यदपि गुणैकान्तवादिनोऽभिभतमाशङ्कय व्युदस्तम् ।
२८७-२३ ४ द्रव्यस्य गुणरूपत्वे रूपवान् घट इत्यादि प्रतीतिर्न स्यात्किन्तु रूपं घट इत्यादि प्रतीतिरापद्यतेत्यादि प्रदर्शितम् ।
૨૮૮-૨ २३-१ भेदैकान्तवाद्यभिमतद्रव्यगुणलक्षणानुपपत्युद्भावकतया 'दन्वस्त द्विई" इति प्रयोविंशतितमगाथाऽवताय व्याख्याता ।
२८८-११ २ तत्र द्रव्यस्य ध्रौव्यं गुणस्योत्पादविगमाविति लक्षणं केवलिद्रव्यस्य केवलज्ञान
गुणस्य युज्यत इति विलक्षणत्वं तत्र घटते, न तु द्रव्यस्याण्चादेरिति द्रव्यार्थान्तरभूतगुणवादिवक्तव्यमुपपाध दर्शितम् ।
२८८-१४
"Aho Shrutgyanam"