________________
कालिकाचार्यकथा |
२०७ चन्ध्याया वा बहूपचारैपि न संतानप्राप्तिः, खलो वा सत्क्रियमाणोऽपि न मैत्रीभावं भजते । एवं गर्दैभिलो गुरुकर्मवाद नह प्रतिबोध्यमानोऽपि न धर्म धत्ते स्म । ततो भूपैः मार्यमाणोऽपि गुरुभिः कृपया देशत्यागं कारितः ।
ततः कालिकाचार्या यस्य गृहे उषिता आसन् तस्योज्जयिनीराज्यं दत्तम् । अन्येषां च ९५ पञ्चनवतिभूपानां मादेशो विभज्य यथार्ह दत्तः । ततः सरस्वती साध्वी अपि आलोचनां दत्वा तपः कारयित्वा गच्छमध्ये आनीता । स्वयमपि कालिकाचार्याः स्वारम्भपापमालाच्य निरतिचाराः सन्तः स्वगच्छमारं बिभराश्वः । न च वाच्यमेतादृशमहारम्भकरणेन तेषां विराधकत्वम् । यत उक्तं सिद्धान्ते-
संघाइयाण कज्जे, चुण्णिज्जा चक्कत्रट्टिसिनं पि ।
कुविओ गुणी महप्पा, पुलाहलद्वीर संपन्न ||२८||
अथवा विष्णुकुमारेणापि साधुप्रत्यनीको नमुचिः हतः (१) । अपि चाचार्यरक्षां कुर्वद्भिः रात्रिप्रतिजागरिकैश्चतुि साधुभिः यामचतुष्टये चत्वारः सिंहा व्यापादिताः ( २ ) । अथवा साधुभिः परस्परं क्रियमाणमत्स्योत्पत्त्याम्नायवार्तां श्रुत्वा प्रभूतमत्स्योत्पादकं मात्सिकं वैकियसिंहेन हतवन्तः साधवः ( ३ ) | पुनरपि आगामिभवे सुमङ्गलसाधुः साधु प्रत्यनीक विमलवाहनं वाहनं भस्मसात् करिष्यति मोक्षं च यास्यति ( ४ ) - इत्यादयो बहवो दृष्टान्ता वाच्याः, इति जिनशासनप्रत्यनीकोच्छेदनेन महाप्रभावकाः श्रीकालिकाचार्याः संजाताः ||
( २ )
अथ तस्मिन्नवसरे भृगुकच्छनगरे श्रीकालिकाचार्य भागिनेयो बलमित्र - भानुमित्रराजौ स्तः । ताभ्यां निजसेवकान् मुक्त्दा श्रीगुरूणामेवं विज्ञप्तम् - हे भगवन् । श्रीमद्भिः कृपां कृत्वाऽत्र समागम्यताम्, बहुजीवप्रतिबोवेन महान् लाभो भविष्यति । ततः श्रीपूज्या विज्ञप्तिमवधार्य लाभं च विभाव्य, प्रामानुग्रामं विहरन्तो भृगुकच्छ नगराभ्यर्णे समाजग्मुः । बलमित्र - भानुमित्राम्यामपि सम्मुखमागत्य महताऽऽडम्बरेण प्रवेशोत्सवं कृत्वा धर्मशालायामुत्तारिताः । अथ राजा प्रत्यहं जैनधर्ममर्माणि शृणोति, हृष्टः सन् मध्येसभायां जिनधर्मं प्रशंसति, वक्ति च- अहो ! अथ काले बहवो धर्माः सन्ति, परं हिंसादिदोषदुष्टत्वात् पाखण्डरूपाः परं जिनधर्मसमानो न कोऽपि दयामयो धर्मः - इत्यादि जिनधर्मप्रशंसां श्रुत्वा पुरोहितमस्तके शूलमुत्थितम्, विचारितं चानेन - अहो | राजा मा जैनधर्मी भवतु, तथा च सति मम वृत्तिभङ्गो भविष्यति । ततो वादं कृत्वा [एनं] मानभ्रष्टं करोमि इति सभासमक्षं वादे कृते गुरुभिः जीवादितत्त्वप्रश्नोत्तरैः निरुत्तरीकृतः । परमन्तर्दुष्टो जानाति - कथमप्ययमाचार्य इतो विद्वत्यान्यत्र याति तदुपायं करोमि - इति विचार्य राज्ञोऽमे प्रोवाच- हे राजन् ! एते आत्मीया महन्तो गुरवः एतेषामरसविरसायाहारो न देयः, यतः पापं लगति । ततः श्रावकानाहूय प्रच्छन्नं वाच्यम्, यदुत गुरूर्णा क्षीर-खाण्ड - घृत-मोदक - घृतपूर - कुण्डलाकृतिप्रभृतिभिष्टानपानाहारो देयः । यद् विलोक्यते (युज्यते) सद् मम भाण्डागाराद गाधम् । ततो राज्ञाऽपि परमभक्तेन तथैव कारितम् ।
अथान्यदा यतयो गोचरीं गच्छन्ति तदां प्रतिगृहं श्रावका मृष्टान्नपानैः प्रतिलाभयन्ति । एकदा गोचरीगतान् साधून् प्रति बालकाः प्रोचुः-भो यतयः 1 यूयं वरमिहागताः, चिरं च स्थातव्यम्, भवदर्थं क्रियमाणमृष्टान्नपानेनास्माकमपि मुखं मृष्टं जायते । अथ श्रीगुरुभिरपि उपयोगो दत्तः, सांप्रतं कथं श्रावका विशेषपर्वं विनाऽपि मृष्टानपानादि प्रयच्छन्ति ! | ततो ज्ञातं जैनद्वेषिणा पुरोहितेनैषाऽनेषणा व्यधायि । ततः “ संकिलेसकरं ठाणं दूरओ परिवज्जए " इति विचार्य भृगुकच्छपुराद् विहृत्यान्यत्र देशेषु संयमं प्रतिपालयन्ति स्म । अत्रैकस्यां संस्कृतकथायां " मगहेसु " [ अस्मन्नेव संग्रहे ५२ पृष्ठे श्रीधर्मघोषसूरिकृतायां पञ्चमी ] कथायां च बलमित्र - भानुमित्रयोः सम्बन्ध एवम् उज्जयिन्यां वलमित्र
"Aho Shrutgyanam"