________________
२०८
श्रीसमयसुन्दरगणिविरचिता भानुमित्रराजानौ बभूवतुः । सदामहात् श्रीकालिकाचार्याश्चतुर्मास्यां तत्र तस्थुः । तत्र च स्वभगिन्याः पुत्र्याः पुत्रं ततो भागिनेयं च बलभानुनामानं तयोरनुमति विनाऽपि प्रदाजयामासुः । ततो बलमित्र-भानुमित्रादयो विमनस्का जाताः । अग्रे सम्बन्धः सदृश एव, परं तत्वं तत्वविदो विदन्तीति-इत्युक्ता एके श्रीकालिकाचार्याः ।
अथ ये श्रीकालिकाचार्याः श्रीधीरनिर्वाणात् ९९३ वर्षे जातास्ते विहरन्तो दक्षिणदेशे प्रतिष्ठानपुरे जग्मुः । तत्र शालिवाहननामा राजा जैनः परमश्रावको यतिभक्तो राज्यं करोति । गुर्वागमनं श्रुत्वा दृष्टः सन् गुरोः समीपे गत्वा वन्दित्वाऽत्याग्रहं कृत्वा गुरवश्चतुर्मास्यां स्थापिताः । अथ राजा सदा धर्मोपदेशं शृणोति, गुरुभक्ति च करोति, देवगृहेषु स्नात्रमहोत्वाः क्रियन्ते । एवं च सति श्रीपर्युषणापर्वन्यासन्नं समागतम्, तदा राजा पृष्टम्-हे भगवन् ! श्रीपर्युषणापर्व कदा भावि ? । तदा गुरुभिः प्रोचे-भाद्रपदसुदिपश्चम्यां भविष्यति । तदा राजा प्राह-हे स्वामिन् ! पश्चम्यामस्माकं कुलक्रमागतः इन्द्रमहोत्सवः, स त्ववश्यं कर्तव्य एव । एकस्मिन् दिने तु पर्वद्वयं कर्तुं न शक्यते, परस्परं भिन्नाचारत्वात् । ततः प्रसादं कृत्वा श्रीपर्युषणापर्व षष्ठयां क्रियते । तथा पूजास्नात्र-पोषधादीनि धर्मकृत्यादीनि प्रभूतानि भवन्ति । ततो गुरुभिः प्रोचे-हे राजेन्द्र ! पञ्चमीरात्रिमुल्लङ्ग्य न कदापि पर्युषणा भवति । यदुक्तम् -
अवि चलइ मेरुचूला, मूरो वा उमामेइ अवराए ।
न य पंचमीइ रयणि, पज्जोसवणा अइकमइ ॥२९॥ कम्पसूत्रेऽपि
___“नो से कप्पइ तं स्यणि उवाइणावित्तए "
ततो राज्ञा प्रोक्तम् हे पूज्य ! तर्हि चतुर्थी क्रियताम् । ततः श्रीकालिकाचार्य:-"अंतरा वि य से कप्पइ"इति श्रीकल्पसूत्राक्षरदर्शनेन सातवाहनराजाग्रहाच्च पञ्चमीतश्चतुभ्यों पर्युषणापर्व प्रवर्तितम् । तदशेन च चतुर्मासिकं चतुर्दश्यां जातम्, अन्यथाऽऽगमोक्कं पञ्चदश्यामासीत् । तदानी तेन समस्तसंघेनापि प्रमाणीकृतम् । यदुक्तं तीर्थोदगालिप्रकीर्णके
तेणउ य नवसरहिं, समइकतेहि बद्धमाणाओ । पज्जोसवणचउत्थी, कालिगसूरीहि तो ठविया ॥३०॥ बीसहि दिणेहिं कप्पो, पंचगहाणी य कप्पठवणा य । नवसयतेणउएहि, वुच्छिन्ना संघाणाए ॥३१॥ सालाहणेण रन्ना, संघाएसेण. कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥३२॥ चउमासपडिक्कमणं, पक्खियादिवसम्मि चउविहो संघो ।
नक्सयतेणउएईि, आयरणं तं पमाणंति ॥३३॥ पुनरपि स्थानाङ्गवृत्तौ-" एवं च कारणेणं अज्जकालगायरिएहि चउत्थीए पज्जोसवणं पवत्तियं समचसंवेण य अणुमभियं, सबसेण य पक्खियाई वि घउद्दसीए आयरियाणि, अन्नहा आगममुत्ताणि पुण्णिमाए ति"। न च तस्मिन्नेव वर्षे सातवाहनजीवनावधि वा तत् पर्युषणापर्व चतुर्थी कृतम्, पश्चात् पुनरपि पश्चम्यामेवाभवदिति वाध्यम् । " इयाणि कहं च अपव्वे चउत्थी पजोसविज्जइ" इति शिव्यपृच्छायां गुरुवचनावसरे “ एवं च जुगप्पहाणेहि चउत्थी कारणे पवत्तिया सा चेव अणुमया सव्वसाहूणं" इति श्रीकालिकाचार्यानन्तरं पश्चात्कालभावि
"Aho Shrutgyanam"