________________
२०६
श्रीसमयसुन्दरगणिविरचिता
थोडी विचाली, वहइ गोला लोक न्यइ ओला, छूटइ कुहक बाण, कायरांरा पडइ प्राण, काबिली मीर नांवई तोर, मारह भालारां बिच्चाबिच्चि लागइ, वगतर मेदीनइ विच्चाविच्चि लागद, खडगारी खडाखडि वागी, भडाभडी गर्दभिल्लरी फोज भागी, सबल लीक लागी। हूंतउ जे सेनानी ते तउ धुरथी थयो कानी, जे इंतउ कोटवाल ते तड नासउ ततकाल, जे हूंतउ फोजदार तिणरइ माथे पडी मार, जे इंता वागिया ते पिण भाजी(गी) गया अभागिया, जे इंता मुहता ते नासी घरे पहुता, जे इंता चउरासीया तीए दांते त्री(तृणां लीया, जे हूंता खवास तीए मूकी जीवारी आस, जे हूंता कायर, तिणनइ सांभरइ आपणी बायर । जे चडता वाहर ते हथियार छोडी थया काहर, जे ढोलरइ ढमकइ मिलता ते गया पासइ टलता, जे बांधता मोटी पाघडी ते उभा न रह्या एका धड़ी, जे हूंता एकएकडा तिणरे नाम दिया बेकडा, जे माथइ धरता आंकडा ते मुहडा कोया बोकडा, जे वणा(जा)वता सारंगी वांकी, तीए तउ रणभूमिका पण पाकी, जे बांधता बिहूं पासे कटारी, तीयांनइ नासतां भूमि भारी, जे पहिरता लांबा साडा तीए नासिते कोडि कीया पवाडा । गर्दभिल्ल नाठउ, बोल घणउ माठउ, गढमहि जई पइठउ, चिंता करइ बैठउ, पोलि ताला जड्या, कालिकाचायेंना कटक चहुं दीसी विटी पड्या ॥
मथ उज्जयिनीनगरीमध्ये गर्दभिल्लो, बहिस्थात् श्रीकालिकाचार्यसैन्यम्-एवं कतिचिद् दिनेषु गतेषु साखीराजस्य सुभटा दुर्गस्य चतुर्दिक्षु भ्रमन्तो विलोकयन्ति परं दुर्गशीर्षोपरि तदीयं सुभटमात्र न पश्यन्ति । ततस्तैरागत्य श्रीकालिकाचार्याणां विज्ञप्तम्-हे भगवन् ! अद्य दुगोपरि न कोऽपि सुभटो दृश्यते, न कोऽपि युद्धयति च, तत् कथम् ! । तेन ततः कालिकाचायः सूपयोगं दत्वा, ज्ञात्वा च तेषां प्रोक्तम्-भो ? अघ कृष्णाष्टमी वर्त्तते, तेन गर्दभिल्लो गर्दभी विद्या साधयन्नस्ति । यूयं पश्यत, यदि कुत्रापि दुर्गोपरि बहिर्मुखा गर्दभी स्थिता भवति, तदा सत्यम् । तैः विलोकयद्भिः सा तथैव दृष्टा । तत आगत्य प्रोक्तं च-हे भगवन् ! भवतां बचनं सत्यं जातम् , अस्माभिः सा तथैव दृष्टा । ततो गुरुभिः प्रोक्तम्-शृण्वन्तु एतत्परमार्थम्, एषा विद्या संपूर्णा सिद्धा भविष्यति तदा सा गर्दभी शब्दं करिष्यति, तच्छब्दं ये शत्रवः श्रोष्यन्ते, ते मुखाद् रुधिरं वमन्तो भूमौ पतिष्यन्ति मरिष्यन्ति वा । एतां वाती श्रुत्वा साखीराप्रमुखा भयभ्रान्ता विज्ञपयन्ति स्म-हे भगवन् ! कोऽप्युपायः कर्तव्यः येन तद्विद्या न प्रभवति । ततः श्रीकालिकाचार्यः प्रोक्तम्-सर्वमपि निजसैन्य कोशपञ्चकं दूरे स्थापयन्तु, मम च पावे शब्दवेधिसुभटानामष्टोत्तरशतं सावधानीभूय तिष्ठतु । यदा चैषा रासभी शब्दकरणाय मुखं प्रसारयति तदा समकालमष्टोत्तरशतबाणैस्तूणीरवत् तस्या मुखं पूरणीयम् , यथा सा शब्दं कर्तुं न शक्नोति, विद्या च न प्रभवति । ततो गुरुवचः प्रमाणयद्भिस्तैस्तथैव चके । उच्चस्थाने स्थित्वाऽऽकर्णान्तबागानाकृष्य शब्दकरणसमये तस्या मुखं परितम् । ततः सा रुष्टा सती गर्दभिल्लमस्तके विष्ठां कृत्वा लत्तां दत्वाऽऽकाशे उत्पत्य गता । ततो सुभटाश्च प्रतोली भक्त्वा मध्ये गत्वा गर्दभिल्लं वामबाहुभ्यां बवा श्रीकालिकाचार्याने मुक्तवन्तः सोऽप्यधमो नीचे मौ वीक्षते स्म । ततो गुरुभिः प्रोचे-रे दुष्ट ! पापिष्ठ ! निकृष्टबुद्धे । किं ते कुकर्माचरितम् ।। दुरात्मन् ! महासतीशीलचरित्रमङ्गपापद्रुमस्येदमिहास्ति पुष्पम् , पर फलं तु परत्र नरकादिदुःखं प्राप्स्यसि । अरे वराक ! अद्यापि किमपि विनष्टं नास्ति, सर्वपापक्षयकरं चारित्रं गृहाण, यथा सुखी भविष्यसि, इत्यादि बहव उपदेशाः सूरिभिर्दताः, परं पापात्मा न प्रतिबुद्धयते, यतः
उवएससहस्सेहि वि, बोहिज्जतो न बुज्झइ कोई ।
जह बंभदत्तराया, उदायिनिय मारउ चेव ॥२७॥ अथवा काको धौतो दुग्धेनापि धवलतां न प्राप्नोति, अथवा मुद्गशैलः पुष्करावर्तमेघप्लावितोऽपि नाद्रीभवति, अथवोषरक्षेत्रे उप्तान्यपि बीजानि नोद्गच्छन्ति, अथवा कर्मकायः प्रहारशतैरपि न भेत्तुं शक्यते, अथवा बधिरस्य ग्रन्थकोटिश्रवणेऽपि नावबोधो जायते, अथवा विषममृतमिश्रितमपि न मृष्टं भवति, अथवा लशुनं करवासितमपि न सुगन्धं स्यात्,
"Aho Shrutgyanam"