________________
कालिकाचार्यकथा |
निरुत्तरीकृतो वादमिच्छँस्तुच्छमतिः क्षणात् । गुरुभिर्गुरुरोषोऽपि स्वं भक्तमिव दर्शयन् ॥७२॥ पुरोधाः माह भूपाळं, पूज्य साधुपदाङ्किते । मार्गे न युज्यते गन्तुं भवेदाशातना यतः ॥७३॥ युग्मम् ॥ ये ध्रुवं ध्रुवपदं गमिनोऽयी, ये जिनाश्च वश (शि) नां परमेशाः । आत्मकर्मफलभोगजस्ते, मादृशाः कथय के परवन्तः ॥ ७४|| ईदृक् तद्वाक्यविभ्रान्त[:], राजाऽऽज्ञामधिगत्य सः । अकारयत् पुरे साधुयोग्यां रसवतीं नवाम् ॥ ७५ ॥ आधाक परिज्ञाय, ततो पर्युषितेऽपि हि । सूरयोऽगुर्महाराष्ट्र, प्रतिष्ठान पुरं वरम् ॥७६॥
( ३ )
जिनपादाब्जरोलम्बसातवाहनभूभुजाः ( जा ) । प्रदत्ते साधवस्तस्थुः साधुयोग्य उपाश्रये ॥ ७७ || अथ पर्युषण पर्वसमये समुपस्थिते । गुरून् विज्ञापयामास, सोल्लासं भूमिवासवः ॥७८॥ अस्मिन् देशे च पञ्चम्यामिन्द्रयात्रामहोत्सवः । कुया पयुषणापर्व, षष्ठयां तु भवदाज्ञया ॥ ७९ ॥ बभाषे मथुरेवं चेन्मेरोश्चकति चूलिका । नातिक्रामति पञ्चम्या रात्रिं पर्युषणा पुनः ॥८०॥ राजाऽवोचच्चतुर्थ्यां तत् करोमि करुणाssकरः (र!) । अवकि ( श्यं) पर्युषितव्यं, गुरुणोक्तं भवत्विति ॥८१॥ सर्वसंघानुमत्याऽभूवतुर्थीवासरे तदा । पर्युषण पर्व सर्वोत्तमं श्रीजिनशासने ||२२||
( ४ )
कालान्तरेण दुःशिष्यदुर्विनीत्वदुःखतः । एकाकी कालकाचार्यों, निःससार महानिशि ॥८३॥ स्वशिष्याचा पट्टाब्जम राकस्य शनैः शनैः । व्रजन् सागरचन्द्राऽऽरूयसूरेः स्थानमियाय सः ॥८४॥ स्थविरः कोऽप्यसावेवमवज्ञां नाटयन्नयम् । अभ्यागत पुरोश्चक्रे, नाभ्युत्थानादिसत्क्रियाम् ॥८५॥ श्रीmrosaरोमें वा, व्याख्यानं रुचिरं मुने: (ने!) | इति सागरचन्द्रेण पृष्टः प्रभुरभाषत ॥८६॥
"Aho Shrutgyanam"
ર