________________
૨૦૧
श्रीमाणिक्यसूरिविरचिता
ते ।
सुवेव स्वादु सद्धर्मरचनं वचन (नं) क कालकगुरोर्वाचो, गताकृति-वयः स्मृतेः ॥८७॥ इतः शय्यातरश्राद्धाद्, गुरुथुद्धिमवाप्यते ।
तत्र जग्मुस्त्वराः शिष्याः, खे द्रुमो दुर( दुत ?) मानसाः (१) ॥८८॥ परिवारं तमायान्तं वीक्ष्य सागरसूरयः । उत्थातुकामा स्तन्मुख्यैर्निषिद्धाः साधुसाधुभिः ॥८९॥ सूरिं नत्वा यथास्थानमासीनेषु महात्मसु । बहिर्भूमेः क्षणात् तावत् कालकाचार्य आययौ ॥९०॥ अभ्युत्थानक्रियापूर्वं जन्मापूर्वमिवाऽऽदरात् । गुरुं गुरुमुदो नेमुर्मुनयो बहुमानतः ॥ ९१ ॥ ज्ञात्वा सागरचन्द्रोऽपि मुनीन्द्र araatfore | क्षमयामास सद्भक्तिव्रीडावनतकन्धरः ॥९२॥ बालुकाकणदृष्टान्ताद्, गुणहानिं प्रदर्शयन् । प्रबोध्य सागरचन्द्राऽऽयं, विजहारान्यतो गुरुः ॥९३॥
( ५ )
सौधर्मेन्द्रोऽन्यदाऽपृच्छत् सीमन्धर जिनेश्वरम् । निगोदजीवव्याख्यानं, जिनेनापि निवेदितम् ॥९४॥ पमच्छेवं पुनः शक्रो, भगवन् ! कोऽपि भारते । एवंविधं निगोदानां व्याख्यानं वेत्ति किं न वा ? ॥ ९५ ॥ जिनेन्द्रः स्माsse, देवेन्द्र ! सांप्रतं कालकाभिधः । जानाति जिनधर्मैकधीरो गणधर स्त्विदम् ॥९६॥ जराजर्जरितं विमरूपं कृत्वा पुरन्दरः । तत्परीक्षार्थमायासीत्, कालकाचार्य संनिधौ ॥९७|| तत्प्रनतो निगोदानां व्याख्यानमकरोद् गुरुः । विस्मयादथ विमोऽयममाक्षीदायुरात्मनः ॥ ९८ ॥ श्रुतज्ञानोपयोगेन, परिज्ञाय कुशाग्रधीः । भवान् भास्वान् सूरेन्द्रैव (ष), जगादेति जि(य) तीश्वरः ॥९९॥ तुष्टाव तं स्फुटीभूय देवराजोऽतिरञ्जितः ।
कलिकालस्तु (ले तु) सर्वज्ञ [:] कालकाचार्य ! ते नमः ॥ १०० ॥ तं त्वाssनम्य सौधम्मै, सौधर्माधिपतिर्ययौ । अन्तेऽनशनमापन्न [ : ], माप सूरिस्त्रिविष्टपम् ||१०१ || यो गर्दभिल्लं जगदेकमलं समूलमुन्मूलयति स्म राज्यात् । आनीतवान् पर्युषणाsssयपर्व, दिने चतुर्थ्याः स गुरुः श्रिये वः ॥ १०२॥ इति श्रीमाणिक्यसूरिविरचिता कालकाचार्यकथा |
" Aho Shrutgyanam"