________________
१८२
श्रीमाणिक्यसूरिविरचिता सैन्यमावास्यतां पश्चात् , ततो व्याधुव्य वेगतः । अष्टोत्तरशतं योधा मत्पार्च ते तु साऽऽयुधाः ॥५६॥ ते राजभिस्तथा चक्रे, नूनं वक्रेतराऽऽशयैः । सप्तमेश्यभवत् साक्षाइ, गर्दभिल्लस्य गर्दभी ॥५७॥ यदा विकाशयामास, मुखं शब्दाय सा तदा । तैः शब्दवेषिभिर्बाणैस्तूणीर इव पूरितम् ॥५॥ विद्या विधाय विष्मूत्रे, व्योममण्डलमुघयौ । जीवग्राहं गृहीत्वा ते, योधाः सूरेस्तमार्पयन् ॥५९॥ सोऽमाणि मरिणा, साध्वीशीलरत्नमनिम्लुच । । संघाचमानदानाऽऽख्यक्षस्यैष सुमोद्गमः ॥६॥ कुलाजार ! दुराचार !, निर्विचार ! विकारवान् । भ्रमन्नपारसंसारे, परत्र फलमाप्स्यसि ॥६१॥ पापीयानित्यवध्योऽयं, मुनिस्तं निरवासयत् । स्थितिज्ञः स्थापयामास, मूलस्थानेऽथ शाखिनम् ॥६२॥ शेखशाखिक्षितीशेभ्यो, भूमिखण्डान्यखण्डरुक् । आलोचनां सरस्वत्या ददावानन्दमेदुरः ॥६॥ शककूलाद् यदायाताः, शकास्ते मथितास्ततः । जित्वा तान् विक्रमाकोऽत्राभूत् पुनः शकभूपतिः ॥६४॥ मसकादिदमाख्यातं, वत्सरज्ञानहेतवे । कथ्यते मूलसंवन्धः, सत्यसंघमहात्मनः ॥६५॥ खाधारोपमं धीरो, दान्तः शान्तस्तपोनिषिः । चित्रं चरति चारित्रं, वृत्तं वा वेत्ति का सताम् ॥६६॥
(२)
इतश्च भृगुकच्छेस्तो(चौ), भागिनेयो महामुनेः । बलमित्र-भानुमित्रा(त्रौ), पृथ्वीनाथौ सहोदरौ ॥१७॥ तयोर्भग्नी च भानुश्रीर्षलभानुस्तदानः । अन्यदा तद्गुरोर्वृत्तं, मगुकच्छाधिपोऽशृणोत् ॥६॥ अकुण्ठोत्कण्ठितस्वान्तवकमित्रनृपान्पया(पो ययौ) । उज्जयिन्यां मयातेन, मविसागरमन्त्रिणा ॥६९॥ शाखिनं समनुज्ञाप्य, परमादरपूर्वकम् ।। भृगुकच्छमगात् सार्द, सूरि (भ)रिमुषाऽऽयः ॥७०॥ [म्या ] बलभानुः गुरोः पार्थे, साग्रहो व्रतमग्रहीद । तदा जनः समस्त्रोऽपि, जिनधर्मरवोऽवति ॥१॥
"Aho Shrutgyanam"