________________
१७४
श्रीजिनदेवरिविरचिता तां क्षिप्त्वा धुरिकां कक्षी, पर्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वभिमुख्यमालोक्य, सूरिरुच्छ्वसिताशयः । साखिमाचष्ट तं रुष्टः, किं तवैवोपरि मभुः ? ॥३१॥ कुपितोऽयमुतान्यस्मायपि कस्मैचिदुच्यताम् । स पुनः षण्णवत्यवं, दृष्ट्वा छुर्यामुवाच गाम् ॥३२॥ मद्विधानां घण्णवतेरुपरि शुदवानयम् । ततस्तैरपि मर्त्तव्यं, मच्छरणवर्जितः ॥३३॥ जगौ सगौरवं सुरिन मर्त्तव्यं मुधैव भो!। नीत्वा हिन्दुकदेशं वः, माज्यराज्यं ददाम्यहम् ॥३४॥ दूतानामानि विज्ञाय, तान् सर्वानपि सत्वरम् ।। समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः ॥३५॥ प्रमाणमादेश इति, व्याहत्य शकपुङ्गवः । व्यधत्त तत् तथैवाशु, जीविताशा हि दुस्त्यजा ॥३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः । संभूय साखयः सबः, सिन्धुतीरे समागमन् ॥३७॥ आचार्यदर्शितपथः, साखी यः सोऽपि सत्वरम् । प्रयाणैरनवच्छिन्नैरुपसिन्धु समासदत् ॥३८॥ तेऽथ सिन्धुं समुत्तीर्य, साधयन्तोऽखिलान् नृपान् । मुराष्ट्राविषयं मापुस्तत्र प्रादृडुपेयुषी ॥३९। विभज्य नवधा राष्ट, सराष्टां तेऽवतस्थिरे । वर्षारात्रे व्यतिक्रान्ते, सूरिणा भणितास्ततः ॥४०॥ इंहो! निरुधमा यूयं, किमु तिष्ठथ संप्रति । अवन्तिदेशं वीचं, पर्याप्तं तत्र मावि वः ॥४१॥ तेऽवोचन द्रव्यरहिता वयं पर्तामहे प्रभो! । निद्रव्याणां हि जायन्ते, न काश्चित् कार्यसिद्धयः ॥४२॥ हेमीकृत्येष्टकापार्क, युक्तया तेभ्यो ददौ गुरुः । तेऽपि संभृत्य सामग्री, पचेलालवान् प्रति ॥४॥ तान् निशम्यायतो दर्पाद्, गर्दभिल्लोऽपि संमुखम् । आधुढौकेऽथ सम्फेटोऽभूद् द्वयोरपि सैन्ययोः ॥४४॥ शस्त्राशस्नि चिरं युवा, शकसैन्येन निर्जितम् । अनीकं गर्दभिल्लस्य, यतो धर्मस्ततो जयः ॥४५॥ अवन्तीशः प्रणभ्याशु, च्यावृत्य स्वपुरीमगात् । कृत्वा रोधकसज्जा तां, तस्थिवानन्तरेव सः ॥४६॥
"Aho Shrutgyanam