________________
कालिकाचार्यकथा। स्वय्यन्यायरते राजन् !, सर्व स्यादसमञ्जसम् । मुञ्चैतां व्रतिनी तस्मात् , परत्रेह च शर्मणे ॥१४॥ कोमलैर्वचनैरेवं, गुरुणा मणितोऽपि सः । मघानैर्वार्यमाणोऽपि, मुमोच न तपोधनाम् ॥१५॥ तेजः शामिवारूढो, भ्रकुटीविकटाननः । सभायां कालकाचार्यः, प्रतिज्ञामकरोदिमाम् ॥१६॥ श्रीसंघमस्यनीकानां, महापातकिनामपि ।। माधवत्यतिथीनां च, नूनं लेप्येय पाप्मभिः ॥१७॥ यथेनमेनसां धामोन्मूलयामि न मूलतः । इत्युक्त्वा वचनं गत्वा, गच्छेऽनालोच्य किञ्चन ॥१८॥ उन्मत्तवेषो नगरी, हिण्डमानो जजल्प सः । राज्यं भुङ्क्ते गर्दमिल्लश्चेत् ततः किमतः परम् ? ॥१९॥ [विभिविशेषकम् ] । एतस्य कान्तः शुद्धान्तश्चेत् ततः किमतः परम् । इति दृष्ट्वा जना सर्वो, हाहारवमुखोऽब्रवीत् ॥२०॥ घिगेनं नृपति यस्य, चेष्टितैः कष्टिताशयः । रटन् पिशाचकीवेत्यमाचार्यः पर्यटत्ययम् ॥२१॥ भूयः संभूय सचिवप्रमुखै|धितोऽपि सः । विरराम न कामातो, व्रतिनीसंग्रहाग्रहात् ॥२२॥ गर्दभीविद्ययाऽजय्यं, तं ज्ञात्वा मेदिनीपतिम् । उपायेनोन्मूलयिष्यन् , शफकूलं ययौ गुरुः ॥२३॥ ये स्युस्तत्र च सामन्तास्ते साखय इति स्मृताः । सेषो । नृपतिः साखानुसाखिरिति विश्रुतः ॥२४॥ आचार्यस्तस्थिवांस्तत्र, साखरेकस्य संनिधौ । मन्त्रयन्त्रप्रयोगाद्यैस्तं चात्यन्तमरञ्जयत् ॥२५॥ अथान्यदा सुखासीने, साखौ तत्र स्वपर्षदि । दूतः साखानुसाखीयः, समागत्यायच्छुरीम् ॥२६॥ छुरिकां तो समालोक्य, साखिः श्याममुखोऽजनि । सरिणा भणितधायं, केयं भो! विपरीतता ॥२७|| अनुग्रहे विभोर्यस्मादायाते दृष्यतेतराम् । सवेक्ष्यते तु कैलक्ष्य, ततः साखिरदोऽवदत् ॥२८॥ नानुग्रहोऽयं भगवन् ! निग्रहः पुनरेष मे । यस्मै क्रुध्यति नः स्वामी, तस्मै प्रेषयति छुरीम् ॥२९॥
४४
"Aho Shrutgyanam"