________________
[१९] श्रीजिन देवसूरिविरचिता कालिकसूरिकथा ।
[ रचनासंवत् १४ शताब्दि ]
LOR
मोहान्धकार माग्भारापहाररविमण्डलम् । अमानबहुमानेन, वर्द्धमानं नमाम्यहम् ॥ १ ॥ पश्चमी तु यैश्चक्रे पर्युषणामहः । तेषां कालकसूरीणां चरितं किञ्चिदुच्यते ||२|| धारावासमिति ख्यातं, पुरं सुरपुरोपमम् । तत्राऽभूद् भूपतिर्वैरिसिंह: सिंहपराक्रमः ||३|| देव्यस्य सुन्दरी, रूपसंपदा सुरसुन्दरी | तयोः कालकनामाऽभूत्, सूनुरन्यूनविक्रमः ||४|| सोsन्यदा बहिरुद्याने, हयान् रमयितुं ययौ । सूरिं गुणाकरं तत्र, धर्ममाख्यान्तमैक्षत ||५|| तस्यान्तिकमथो गत्वा धर्मे शुश्राव शुद्धधीः । सद्यः संसारवासाब, परं वैराग्यमासदत् ॥६॥ पितरौ समनुज्ञाप्य, भटपश्चशतीयुतः । सरस्वत्याऽऽख्यया स्वत्राः सार्द्धं व्रतमनिश्रियत् ||७|| शिक्षां द्विधाऽभ्यस्तवन्तं श्रुताकूपारपारगम् । निवेश्य च निजे पट्टे, स्वर्गातिथिरभूद् गुरुः ॥८॥ क्रमेण कालकाचार्य:, साधुपश्चशतान्वितः । क्षमां पुनानः पदन्यासैः, पुरीमुज्जयिनीं ययौ ॥९॥ आरामे समवासार्षीद्, भगवान् सपरिच्छदः । तचरित्रैः पवित्रैश्व, चित्रीयन्ते स्म नागराः ॥१०॥ गर्दमिलो नृपोऽद्राक्षीत्, समायान्तीं वहिर्भुवः । अन्यदाssif कृतार्यरूपां सूरेः सहोदरीम् ॥ ११ ॥ कामग्रहग्रहीतस्तां, इठादानाय्य पूरुषैः । न्यधादन्यः शुद्धान्ते, सूरिविज्ञातवांश्च तत् ||१२|| आस्थानं स्वयमागत्य, गुरुः शान्तमनास्ततः । तं दुष्टनृपमाचष्ट, सुधामधुरया गिरा ॥ १३ ॥
"
"Aho Shrutgyanam"