________________
१५६
श्री प्रभाचन्द्राचार्य विरचिता
गन्तन्यं तत् प्रतिष्ठानपुरे संयमयात्रया । श्रीerdarent राजा, तत्र जैनो दृढव्रतः ॥११३॥
( ३ )
ततो यतिद्वयं तत्र, मैषि सङ्ग्राय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्व पर्युषणं ध्रुवम् ॥ ११४॥ तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः ।. तत्राकथयतां मेने, तेनैतत् परया मुदा ॥ ११५ ॥ श्रीmrosagः माप, शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६॥ उपपर्युषणं तत्र, राजा व्यझपयद् गुरुम् । अत्र देशे प्रभो ! भावी, शक्रध्वजमहोत्सवः ||११७|| नभस्यशुक्लपञ्चम्यां ततः षष्ठयां विधीयताम् 1 स्वं पर्व नैकचित्तत्वं धर्मे नो लोकपर्वणि ॥ ११८ ॥ मथुराह प्रजापाल !, पुराईद्गणभृद्गणः । पञ्चमीं नात्यगादेतत्, पर्वास्मद्गुरुगीरिति ॥ ११९ ॥ कम्पते मेरुचूलाsपि, रवि पश्रिमोदयः । नातिक्रामति पर्वेदं पञ्चमीरजनीं धुवम् ॥ १२० ॥ राजाऽवदचतुर्थ्यां तत् पर्व पर्युषणं ततः । इत्थमस्तु गुरुः माह पूर्वैरप्याहतं हृदः ॥ १२१ ॥ अर्वागपि यतः पर्युषणं कार्यमिति श्रुतिः । महीनाथस्ततः माह, हर्षादेतत् प्रियं प्रियम् ॥ १२२॥ यतः कुहूदिने पर्वोपवासे पौषवस्थिताः । अन्तःपुरपुरन्ध्रयो मे, पक्षादौ पारणाकृतः || १२३ ॥ तत्राष्टमं विधातृणां निर्ग्रन्थानां महात्मनाम् । भवतु प्राशुकाहारैः, श्रेष्ठमुत्तरपारणम् ॥१२४ || उवाच मधुरप्येतन्महादानानि पश्यत् । निस्तारयन्ति दत्तानि, जीवं दुष्कर्मसागरात् || १२५ ।। पथश्रान्ते तथा ग्लाने, कृतलोचे बहुश्रुते । दानं महाफलं दत्तं तथा चोत्तरपारणे ॥ १२६ ॥ ततः प्रभृति पञ्चम्याचतुर्थ्यामागतं हृदः । कषायोपशमे हेतुः पर्व सांवत्सरं महत् || १२७|| श्रीमत्कtosसूरीणामेवं कत्यपि वासराः । जग्मुः परमया तुष्टया कुर्वतां शासनोन्नतिम् ॥ १२८ ॥
"Aho Shrutgyanam"