________________
कालिंकाचार्यकथा ।
अन्येधुः कर्मदोषेण, सूरीणां तादृशामपि । आसन्नविनया: शिष्या दुर्गतौ दोहेदप्रदाः ॥१२९॥ अथ शय्यावर माहु, सूरयोऽवितथं वचः । कर्मबन्धनिषेधाय, यास्यामो वयमन्यतः ॥१३०॥ त्वया कथ्यममीषां च, प्रियकर्कशवाग्भरैः । शिक्षयित्वा विशालायां, प्रमिष्यान्ते ययौं गुरुः ॥१३१॥ इत्युक्त्वाऽगात् प्रमुस्तत्र, तद्विनेयाः प्रगे ततः । अपश्यन्तो गुरुनूचुः, परस्परमवाङ्मुखाः ॥१३२।। एष शय्यातरः पूज्यशुद्धिं जानाति निश्चितम् । एष दुर्विनयोऽस्माकं, शाखाभिर्विस्तृतोऽधुना ॥१३३॥ पृष्टस्तैः स यथौचित्यमुत्त्वोवाच प्रभुस्थितिम् ।। ततस्ते संचरन्ति स्मोजयिनी प्रति वेगतः ॥१३४॥ गच्छन्तोऽध्वनि लोकैश्वानुयुक्तो अवदन् मृषा । पश्चादग्रस्थिता अने, पश्चात्स्था प्रभवो ननु ॥१३५॥ यान्तस्तन्नामकारात्, पैयि लोकेन पूजिताः । नारी-सेवक-शिष्याणामवंज्ञा स्वामिनं विना ॥१३६॥ इतः श्रीकालकर सूरिस्रवेष्टितरत्नवत् ।। यत्याश्रये विशालायां, पावित्रच्छन्नदीधितिः ॥१३७॥ प्रविष्यः सागरः मूरिस्तत्र व्याख्याति चागमम् । तेन नो विनयः सूरेरभ्युत्यानादिको दधे ॥१३८।। तत इयो पतिक्रम्य, कोणे कुत्रापि निर्जने । परमेष्ठिपरावर्च, कुर्वन् तस्थावसङ्गधीः ॥१३९।। देशनाऽनन्तरं भ्राम्यस्तत्रस्यः मूरिराह च । किश्चित् तपोनिधे! जीर्ण !, पृच्छ सन्देहमादृतः ॥१४०॥ अकिश्चिज्ज्ञो जरत्वेन, नावगच्छामि ते पचः । संधाऽप्यापृच्छय येनाई, संशयापगमक्षमः ॥१४॥ अष्टपुष्पीमथो पृष्टो, दुर्गमां मुगमामिव । गर्वाद् यदिश्चन व्याख्यादनादरपरायणः ॥१४२॥ दिनः कैश्चित् ततो गच्छ आगच्छत् तदुपाश्रयम् । सुरिणाऽभ्युत्थितोऽवादीद्, गुरवोऽग्रे समाययुः ॥१४३।। वास्तव्या अवदन् वृद्ध, विनैकं कोऽपि नाययौ । तेष्वागच्छेत्सु गच्छोऽभ्युदस्थात् सूरिश्च संत्रपः ॥१४४॥
"Aho Shrutgyanam"