________________
श्रीप्रभाचन्द्राचार्यविरचिता पातयित्वा धृतो बद्धवा, प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः, माह तं कालकमभुः ॥८॥ साध्वी साध्वी त्वया पाप!, श्येनेन चटकेव यत् । नीता गुरुविनीताऽपि, सत्कर्मकुसुमं ह्यदः ॥८२॥ फलं तु नरक: मेत्य, तद् विबुध्याधुनाऽपि हि । उपशान्तः समादत्स्व, प्रायश्चित्तं शुभावहम् ॥८३॥ आराधकः परं लोकं, भविता रुचितं निजम् ।। विधेहीति श्रुतेनस्त्यक्तोरण्ये ततोऽभ्रमत् १८४॥ व्याघेण भक्षितो भ्राम्यन् , दुर्गतो दुर्गतिं गतः । साक् साधुद्रुहामीण, गतिरत्यल्पकं फलम् ॥८५।।
रेरादेशतो मित्रं, भूपः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि, तस्थुः शाखिनराधिपाः ॥८॥ आरोपिता व्रते साध्वी, गुरुणाथ सरस्वती । आलोचितप्रतिक्रान्ता, गुणश्रेणिमवाप च ॥८७॥ विद्यादेव्यो यतः सर्वा अनिच्छुखीव्रतच्छिदः । कुप्यन्ति रावणोऽपीडा, सीतायां न दधौ हठम् ॥८॥ एतादृक्शासनोनत्या, जैनतीर्थ प्रभावयन् । बोधयन् शाखिराजांच, कालकः परिराड् बभौ ॥८९॥ शकानां वंशमुच्छेद्य, कालेन कियताऽपि हि । राजा श्रीविक्रमादित्या, सार्वभौमोपमोऽभवत् ॥१०॥ स चोनवमहासिद्धिः, सौवर्णपुरुषोदयात् ।। मेदिनीमनृणां कृत्वाऽचीकरद् वत्सरं निजम् ॥११॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः ।। तस्य राज्ञोऽन्वयं हत्वा, वत्सरः स्थापितः कैः ॥१२॥ इति प्रसङ्गतोऽजल्पि, प्रस्तुतं मोच्यते बदः । श्रीकालकमभुर्देशे, विजई राजपूजितः ॥१३॥
इतश्चास्ति पुरं लाटललाटतिलकभभम् । भृगुकच्छनृपस्वत्र, बलमित्रोऽभिधानतः ॥१४॥ भानुमित्राग्रजन्माऽसीत् , स्वस्त्रीय: कालकमभोः । स्वसा तयोश्च भानुश्रीर, पलभानुश तत्सुतः ॥९५॥ युग्मम् ॥ अन्यदा कालकाचार्यवृत्तं तैलोकतः श्रुतम् । तोपादाहूतये मन्त्री, तैनिजः अष्यत प्रभोः ॥९॥
"Aho Shrutgyanam"