________________
कालिकाचार्यकथा। कनिष्ठिकानखं पूर्ण, चूर्णयोगस्य कस्यचित् । आक्षेपात् तत्र चिक्षेपाक्षेप्यशक्तिस्तदा गुरुः ॥६४॥ विध्यातेऽत्र ययावग्रे, राज्ञः प्रोवाच यत् सखे !। विमज्य हेम गृहीत, यात्रासंवाहहेतवे ॥६५॥ तथेत्यादेशमाधाय, तेऽकुर्वन् पर्व सर्वतः । भास्थानिकं गजाधादिसैन्यपूजनपूर्वकम् ॥६६॥ पञ्चाल-लाटराष्ट्रेशभूपान् जित्वाऽथ सर्वतः । शका मालवसन्धि ते, मापुराक्रान्तविद्विषः ॥६॥ श्रुत्वाऽपि बळमागच्छद्, विद्यासामर्थ्यनर्वितः । गर्दभिल्लनरेन्द्रो न, पुरीदुर्गमसज्जयत् ॥६॥ अयाप शाखिसैन्यं च, विशालातलमेदिनीम् । पतसैन्यवत् सर्वमाणिवर्गभयङ्करम् ।।६९॥ मध्यस्थो भूपतिः सोऽथ, गर्दभीविधया बले । नादर्युन्मादरीतिस्थः, सैन्यं सन्जयति स्म न ॥७॥ कपिशीर्षेषु नो दिम्बा, कोटकोणेषु न ध्रसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥७१॥ न वा मटकपाटानि, पूमतोलीष्वसज्जयत् । इति चारैः परिज्ञाय, सुहृभूपं जगौ गुरुः ॥७२॥ अनावृतं समीक्ष्येदं, दुगै मा भूरनुधमः । ' यदष्टमी-चतुर्दश्योरर्चयत्येष गर्दभीम् ।।७।। अष्टोत्तरसहस्रं च, जपत्येकानमानसः । शब्दं करोति जापान्ते, विधा सा रासभीनिभम् ॥७४॥ तं वृत्कारस्वरं घोरं, द्विपदो चा चतुष्पदः । यः अणोति स वक्त्रण, फेनं मुञ्चन् विपद्यते ॥७५|| अर्धवृतीयगन्यूतमध्ये स्थेयं न केनचित् । आवासान् विरलान् ! दत्वा स्थातव्यं सबलैनृपः ॥७६॥ इत्याकर्ण्य कृते तत्र, देशे कालकसद्गुरुः । सुभटानां शतं साष्टं, पार्थयच्छब्दवेधिनाम् ॥७॥ स्थापिताः स्वसमीपे ते, लब्धलक्षाः सुशिक्षिताः । स्वरकाले मुखं तस्या बभ्रुवाणैर्निषङ्गवत् ॥७८|| सा मूर्षि गर्दैभिल्लस्य, कृत्वा विभूत्रमीय॑या । हत्वा च पादघातेन, रोषेणान्तर्दधे खरी ॥७९॥ अवलोऽयमिति ख्यापयित्वा तेर्षा पुरो गुरुः । समग्रसैन्यमानीय, मानी तं दुर्गमाविशत् ॥८॥
"Aho Shrutgyanam"