________________
कालिकाचार्यकथा । हा ! रक्ष रक्ष सोदर्य !, क्रन्दन्ती करुणस्वरम् । अपाजीहरदत्युग्रकर्मभिः पुरुषैः स ताम् ॥३०॥ साध्वीभ्यस्तत् परिज्ञाय, कालकमभुरप्यथ । स्वयं राजसमज्यायां, गत्वाऽवादीद तदग्रतः ॥३॥ वृत्तिविधीयते कच्छे, रक्षायै फलसंपदः । फलानि भक्षयेत् सैवाख्येयं कस्याग्रतस्तदा ॥३२॥ राजन् ! समग्रवणांनी, दर्शननां च रक्षकः । त्वमेव तन ते युक्तं, दर्शनिव्रतलोपनम् ॥३३॥ उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य, म्लेच्छचद् ध्वंसते तया ॥३४॥ संवेन मन्त्रिभिः पौरैरपि विज्ञापितो हदम् । अवाजीगणदारूडो, मिथ्यायोहे गलन्मतिः ॥३५॥ माक्षात्रतेज आचार्य उबिद्रमभजत् ततः । प्रतिज्ञां विदधे घोरां, तदा कातरतापनीम् ॥३६॥ जैनापभ्राजिनां ब्रह्मवालामुखघातिनाम् । अईद्विम्बनिहन्तॄणां, लिप्येऽहं पाप्मना स्फुटम् ॥३७॥ न चेदुग्छेदये शीघ्रं, सपुत्र-पशु-बान्धवम् । अन्यायकर्दमकोडं, विब्रुवन्तं नृपब्रुवम् ॥३८॥ युग्मम् ॥ असंभाव्यमिदं तत्र, सामान्यजनदुष्करम् । उक्त्वा निष्क्रम्य दम्भेनोन्मत्तवेषं चकार सः ॥३९॥ एकाकी भ्रमति स्मायं, चतुष्के चत्वरे त्रिके । असम्बद्धं बदन् द्वित्रिश्चेतनाशून्यवत् तदा ॥४०॥ गर्दभिल्लो नरेन्द्रश्चेत्, ततस्तु किमतः परम् । यदि देशः समृद्धोऽस्ति, ततस्तु किमतः परम् ? ॥४१॥ वदन्तमिति तं श्रुत्वा, जनाः माहुः कृपाभरात् । स्वविरहितः सूरिस्तार अहिलतां गतः ॥४२॥ युग्मम् ॥ दिनेः कतिपयैस्तस्माभिर्ययावेक एव सः । पश्चियां दिशमाश्रित्य, सिन्धुतीरमगाच्छनैः ॥४३॥ शाखिदेशच तत्रास्ति, राजानस्तत्र शास्त्रयः । शकापरामिधाः सन्ति, नवतिः षड्भिरर्गला ॥४४॥ तेषामेकोऽधिराजोऽस्ति, सप्तलक्षतुरगमः । तुरङ्गायुतमानाश्चापरेऽपि स्युरेश्वराः ॥४५॥ एको माण्डलिकस्तेषां, मैक्षि कार्यकरिणा । अनेककौतुकमेक्षाइतचितः कृतोऽध सः ॥४६॥
"Aho Shrutgyanam"