________________
१५०
श्रीप्रभाचन्द्राचार्यविरचिता व्यजिज्ञपत् स विज्ञाय, नाथ ! मरिर्गुणाकरः । प्रशान्तपावनीं मूर्ति, बिभ्रद् धर्म दिशत्यसौ ॥१३॥ विश्राम्यद्भिर्नृपारामे, श्रूयतेऽस्य वचोऽमृतम् । अस्त्वेवमिति सर्वानुज्ञातं तत्राभ्यगादसौ ॥१४॥ गुरुं नत्वोपविष्टे च, विशेषादुपचक्रमे । धर्माख्यां योग्यतां ज्ञात्वा, तस्य ज्ञानोपयोगतः ॥१५॥ धर्माईद्गुरुतत्त्वानि, सम्यग् विज्ञाय संश्रय । ज्ञान-दर्शन-चारित्ररत्नत्रयविचारकः ॥१६॥ धर्मों जीवदयामूला, सर्वविद् देवता जिनः । ब्रह्मचारी गुरुः सङ्गभङ्गभू रागभङ्गमित ॥१७॥ व्रतपश्चकसंवीतो, यतीनां संयमाश्रितः । दशमकारसंस्कारो, धर्मः कर्मच्छिदाकरः ॥१८॥ य एकदिनमप्येकचित्त आराधयेदमुम् । मोक्षं वैमानिकत्वं वा, स माप्नोति न संशयः ॥१९॥ अथो गृहस्थधर्मश्च, व्रतद्वादशकान्वितः । दान-शील-तपो-भावभङ्गीभिरभितः शुमः ॥२०॥ स सम्यक् पाल्यमानव, शनैर्मोक्षपदो नृणाम् । जैनोपदेश एकोऽपि, संसाराम्भोनिधेस्वरी ॥२१॥ श्रुत्वेत्याह कुमारोऽपि, मङ्गिनीमङ्गिनी दिश । दीक्षां मोक्षं यथा ज्ञानवेलाकुलं लभे लघु ॥२२॥ पितरौ स्वावनुशाप्यागच्छ तत् तेऽस्तु चिन्तितम् । अत्यादरेण तत् कृत्वाध्याज्जाम्या सहितस्ततः ॥२३॥ प्रवज्याऽदायि तैस्तस्य, तया युक्तस्य च स्वयम् । अधीती सर्वशास्त्राणि, स प्रज्ञाऽतिशयादभूत् ॥२४॥ स्वपट्टे कालकं योग्यं, मतिष्ठाप्य गुरुस्ततः । श्रीमान् गुणाकारः मूरिः, मेत्यकार्याण्यसाधयत् ॥२५॥ अथ श्रीकालकाचार्यो, विहरभन्यदा ययौ । पुरीमुज्जयिनी बालारामेऽस्योः समवासरत ॥२६॥ मोहान्धतमसे तत्र, मग्नानां भव्यजन्मिनाम् । सम्यगर्थप्रकाशे भूत , प्रभूष्णुमणिदीपवत् ॥२७॥ तत्र श्रीगर्दभिल्लाख्यः, पुर्ण राजा महाबलः । कदाचित् पुरबागोया, कुर्वाणो राजपाटिकाम् ॥२८॥ कर्मसंयोगतस्तत्र, व्रजन्तीमैक्षत स्वयम् । जामि कालकरीणां, काको दधिघटीमिव ॥२९॥ युग्मम् ॥
"Aho Shrutgyanam"