________________
[१७]] श्रीप्रभाचन्द्राचार्यविरचितं
प्रभावकचरितान्तर्गत कालकचरितम् ॥
[ रचनासंवत् १३३४ ]
श्रीसीमन्धरतीर्थेचविदितोऽनणुतो गुणात् । कृतश्चिदपि सोऽव्याद् वः, कालकसूरिकुञ्जरः ॥१॥ पाच्यैर्बहुश्रुतैर्वृत्तं, यस्य पर्युषणाभयम् । आरतं कीयते किं न, शकटी शकटानुगा ॥२॥ श्रीधरावासमित्यस्ति, नगरं न गरो जयी । द्विजिहास्यसमुद्गीणों, यत्र साधुवचोऽमृतैः ॥३॥ आचाकम्बावलम्बान्या, महावळभरोच्छ्रिता । कीर्तिपताकिका यस्याक्रान्तव्योमा गुणाश्रया ॥४॥ युग्मम् ।। श्रीवैरिसिंह इत्यस्ति, राजा विक्रमराजितः । यत्मवापो रिपुत्रीणां, पत्रचल्लीरशोषयत् ॥५॥ तस्य श्रीशेषकान्तेव, कान्ताऽस्ति सुरसुन्दरी । उत्पत्तिभूमिर्भद्रस्य, महाभोगविराजिनः ॥६॥ जयन्त इव शक्रस्य, शशाङ्क इव वारिधः । कालको कालकोदण्डखण्डितारिमुतोऽभवत् ॥७॥ मुता सरस्वती नाम्ना, ब्रह्मभूविश्वपावना । यदागमात् समुद्रोऽपि, गुरुः सर्वाश्रयोऽभवत् ॥८॥ कालकोऽश्वकळाकेलिकळनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ॥९॥ तत्र धौरितकात् प्लुत्या, पलितेनापि वाहयन् । उत्तेजिताल्लसद्त्या , हयानुत्तेरितादपि ॥१०॥ श्रान्तस्तिमितगन्धर्वो, गन्धर्ष इव रूपतः । अश्णोन्मसूणोदारं, स्वरमाराममध्यतः ॥११॥ अथाह मन्त्रिणं राजपुत्रः कीदृक् स्वरो बसौ । मेघगर्जितगम्भीरः, कस्य वा झायतां ततः ॥१२॥
३८
"Aho Shrutgyanam"